________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता ।
-
Acharya Shri Kailassagarsuri Gyanmandir
२३७०
युक्तं सशर्करं पीत्वा वृद्धः साप्ततिकोऽपि वा । विपुलं लभतेऽपत्यं युवेव च स हृष्यति ॥ ४ ॥ मण्डलैर्जातरूपस्य तस्या एव पयः श्रुतम् । अपत्यजननं सिद्धं सघृत नौद्रशर्करम् ॥ ५ ॥ त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः भृष्टाः सशर्करaौद्राः नीरधारावदोहिताः ॥ पीत्वा यथाबलञ्चोद्ध पष्टिकं चीरसर्पिषा । भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति नाचरत् ॥ ६॥
[ वाजीकरणपाद ३
I
आढकोन्मतेोदके पयसि गृष्ट्यादुप्रक्तलक्षणाया धेन्वा माषपणभृताया इक्ष्वादाया अज्जुनादाया वा द्विभागदुग्धम् एकभागं जलं मिलिखा पोड़शशरावन्मते पवा अवशिष्टं यदा पयो भवति तदा तान मेदादीनां किट्टान् विवर्जयेत् वस्त्रेण गालयित्वा तान् त्यजेत् । शेषं पयो मधुसर्पिः शर्कराभिर्युक्तं पीला शुद्धतनुः पुमान् । साप्ततिकोऽपि वृद्धः अपिशब्दादन्योऽपि पुमान् ॥ ४ ॥ गङ्गाधरः - मण्डलैरित्यादि । तस्या गृष्ट्यादिलक्षणाया धेन्वा माषपर्णभृताया इक्ष्वादाया अर्जुनादाया वा एव न त्वन्यस्याः पयो दुग्धं जातरूपस्य सुवर्णस्य मण्डलैर्मण्डलाकारैश्चक्रिकारूपैस्तदुग्धाभ्यन्तरे निक्षिप्तैः शृतं पक्कमर्द्धावर्त्तितम् अनुरूपेण घृतक्षौद्रशर्करायुक्तं पीतं सिद्धं वाजीकरणमिदमपत्यजननम् इति ॥५॥
गङ्गाधरः- त्रिंशदित्यादि । त्रिंशत् गुड़िकाः पिप्पल्यः सुपिष्टास्तैलस्य सर्पिषश्च प्रकुञ्चे मिलित्वा तैलसर्पिषोः पलमाने भ्रष्टा तत्रानुरूपेण शर्करामधुनी दत्वा दोहनपात्रे क्षिप्ताः गृष्टिसंशकादिलक्षणाया धेन्वा माषपर्णभृताया इक्ष्वादाया अर्जुनादाया वा क्षीरधारयाऽवदोहितं यासु ताः क्षीरधारावदोहितास्तैलसर्पिः प्रकुञ्चे भृष्टाः सक्षौद्रशर्कराः सुपिष्टाः त्रिंशद्गुड़िकाः पिप्पल्यः यथावलं तत्समुदायात्मकमौषधं शुद्धतनुः ना पुमान् पीला
For Private and Personal Use Only
चक्रपाणिः - विवर्जयेति मेदादिकल्कं वर्जयेत् । वृद्धः सप्ततेरर्व्वागिति ज्ञेयम्; साप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता, तथापि वृष्यप्रभावाद् भवतीति विज्ञेयम् । जातरूपस्येति मुवर्णस्य । मण्डलरूपाकृतिरिह सुवर्णस्य प्रभावाद् वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञ यम् । तस्या एवेति माषपर्णभृतधेन्वाः । प्रकुञ्चः पलम् । क्षीरधारावदोहिता इति पिप्पली कल्कादुपरिक्षीरधारावादीहः कर्त्तव्यः; क्षीरचं तावद दोह्यम्, यावता पानयोग्याः पिप्पल्यः भवन्ति ॥ ४ ॥६॥