SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७२ चरक-संहिता। [वाजीकरणपाद सर्पिषः कुड़वश्चैकस्तत्सर्व क्षीरसंयुतम् । पक्त्वा पूपलिकाः खादेद बहाः स्युर्यस्य योषितः॥८॥ घृतं शतावरीगभं क्षीरे दशगुणे पचेत् । शर्करापिप्पलीक्षौद्र-युक्तं तद् वृष्यमुत्तमम् ॥ ६ ॥ कर्ष मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् । प्रयुक्त यः पयश्चानु नित्यवेगः स ना भवेत् ॥ १०॥ एव। तुपरहितयोः कृष्णतिलसुवर्णमुद्गयोः प्रत्येकं चूर्णितयोः द्वौ द्वौ कुड़वो प्रत्येकमेकैकशरावम्। गोधूमशालितण्डुलानां चणितानां प्रत्येक कुड़वः । सर्पिय इति नवस्य गोघतस्य कुड़व एकः। तत् सर्चमेकत्र मर्दयिखा पूपलिकाः निर्माय गृष्ट्यादिलक्षणाया माषपर्णभृताद्यन्यतमाया धेन्वाः क्षीरे पक्त्वा खादेत् यथाग्निबलं शुद्धतनुरिति ॥८॥ गङ्गाधरः-घृतमित्यादि। घृतं नव्यं गव्यघृतमनुक्तमानात् प्रस्थोन्मितं शतावरीकल्कगर्भ ततो घृतात् पादिकं शतमूलीकल्कं गर्भे तस्य घृतस्याभ्यन्तरे दत्त्वा तस्माच्च घृतात् दशगुणे गृष्ट्यादिलक्षणाया माषपर्णभृताद्यन्यतमाया धेन्वाः क्षीरे पचेत् । क्षीरक्षये शब्दव्युपरमे सति अवतार्य वस्त्रेण पूला सुशीते तत्र घृते प्रक्षिप्तैः शर्करापिप्पलीक्षौद्रयुक्तं तद घृतमुत्तमं दृष्यमिति। अत्र शकरादीनां प्रक्षेपः समानमानेन लभ्योऽपि घृतात् पादिको मिलिला देयः । पुनयुक्त्या पिप्पलीचूर्णप्रक्षेपो बोध्यो यथा नातिव्यक्तकटुकत्वं भवति, तेन पलमेकं पिप्पलीचर्णस्य सार्द्धत्रिपलं शर्करायाः सार्द्धत्रिपलश्च क्षौद्रस्येति मिलिखाष्टपलं घृतात् पादिकं भवतीति ॥९॥ . गङ्गाधरः-कर्षमित्यादि। घृतस्य च कर्षः क्षौद्रस्य च कर्षस्ताभ्यां मधुकर्णस्य कर्ष लेहविधानेन यः शुद्धतनुः प्रयुङ्क्ते तदनु पयश्च गृष्ट्यादिलक्षणाया माषपर्णभृताधन्यतमाया धेन्वा दुग्धं प्रयुक्ते स ना पुमान् नित्यवेगः अक्षयकामवेगः स्यात् ॥१०॥ गोधूमशालिघृतानां कुड़वः, तिलमुद्गौ द्विकौडविको चूर्णयित्वा" इत्यादि। घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेपणम्, अन्यतो दृष्टयायात् घृतस्य प्रास्थिकत्वम् ॥ ७–९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy