________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्याय
सिद्धिस्थानम् ।
३६४५ उरःशिरोलाघवमिन्द्रियाणां स्रोतोविशुद्धिश्च भवेद विशुद्धे । गलोपलेपश्च शिरोगुरुत्वं निष्ठीवनश्चाप्यथ दुर्विरिक्त ॥ ३४॥ शिरोऽक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरश्च पश्येत् । स्यात् तर्पणं तत्र मृदु द्रवञ्च स्निग्धस्य तीक्ष्णन्तु पुनर्न योगे॥ इत्यातुरखस्थविधिः छ प्रयोगे
बलायुषोवृद्धिकृदामयनः ॥ ३५ ॥ क्रमेण पुनरुत्तमाङ्ग मस्तक तः पूर्वोक्तः स्नेहः स्निग्धं तथा तैः पूर्वोक्तः स्वेदः स्वेदितं मलानां बलं समीक्ष्य त्रिविधमुत्तममध्यमाधम द्वितिरेकशो वा वारान् विरेचयेत् ।। ३३॥
गङ्गाधरः-तस्य शिरोविरेचनस्य सम्यगयोगलक्षणमाह-उशिर इत्यादि। विशुद्ध सम्यक शुद्धे शिरसि । असम्यगयोगलक्षणमाह-गलोपलेपश्चेत्यादि ॥३४
गङ्गाधरः-अतियोगलक्षणमाह-शिरोऽक्षीत्यादि। तिमिरश्च पश्ये दित्यन्धकारं पश्येत् । तत्रातियोगे प्रतिकारमाह–स्यात् तपेणमित्यादि । तत्रातियोगे इति शिरोविरके पुनः स्निग्धस्य तं नरं स्निग्धं कृता मृदु द्रवश्च तर्पणं विदध्यादिति, न तु तीक्ष्णं तपेणं विदध्यादिति । इतीत्यादि। इति खल्वेष विरेचनस्येहोच्यते। अनेन वमनादिना शुद्धस्यापि शिरोविरेचनैकसम्पाद्य पुरुषेऽयं क्रमो ज्ञेयः। स्निग्धमित्यङ्गशिरोवस्तिपाण्यादि । तलस्वेदितमिति हस्त तलस्वेदितम्। सिरिथैकश इति तदिनएव दोषाणामुत्कृष्टत्वादि बलत्रैविध्यमपेक्ष्य यथायोग्यतया योज्यम्। लाघवमिन्द्रियाणामिति पारादीनां स्वविषये पाटवम् ॥ ३३ ॥३४॥
चक्रपाणिः-तिमिरच पश्येरिति तमोव्यात सर्व पश्येदिति। तस्यातियोगायोगयोचिकित्सानुवक्तव्यतयाऽनुषङ्गतामाह- स्यात् तर्पणमित्यादि। मृड द्रवम्चेत्यमेनातियोगचिकितसितम्। तीक्ष्णन्तु पुनर्नयोग इति अयोगशिरोविरेचनस्यैव पुनस्तीक्षणशिरोविरेचनं देयम्। उक्त कर्मप्रयोगमुपसंहरति-इत्यातुरेत्यादि। भातुरस्वस्थसुखः इति वचनेन भातुरे आमयस्थाप* इत्यातुरस्वस्थसुख इति चक्रतः पाठः ।
४५७
For Private and Personal Use Only