________________
Shri Mahavir Jain Aradhana Kendra
३६४४
www.kobatirth.org
चरक संहिता ।
-
Acharya Shri Kailassagarsuri Gyanmandir
[ कल्पनासिद्धिः
त्रोन् पञ्च वाहुश्चतुरोऽथ षड् वा वाताधिकानामनुवासनीयान् । स्नेहान् प्रदायाशु भिषग् विदध्यात् स्रोतो विशुद्धार्थमतो निरूहान् ॥ ३२ ॥ विशुद्धकायस्य ततः क्रमेण स्निग्धन्तु तैः स्वेदितमुत्तमाङ्गम् । विरेचयेद द्वित्रिरथैकशो वा
बलं समीक्ष्य त्रिविधं मलानाम् ॥ ३३ ॥
For Private and Personal Use Only
गङ्गाधरः - श्री नित्यादि । वाताधिकानामनुवासनीयान् स्नेहान् वस्तीन त्रीनाहुरथवा पश्चाहुरथवा चतुर आहुरथवा पडाहुः । तान् स्नेहान् वस्तीं भिषक् स्रोतो विशुद्धार्थं विदध्यात् । अतः परं निरूहान् विदध्यात् ॥ ३२ ॥
-
गङ्गाधरः - अथ शिरोविरेचनमाह – विशुद्धेत्यादि । एवं प्रकारेणादौ वमनेन ततो विरेचनेन ततोऽनन्तरं सानुवासननिरूहेण विशुद्धकायस्य ततः हारीतेऽपि - त्रिंशकं कर्म बुधा वदन्ति" इत्यायुतम् । कम्र्मादीनां प्रयोगं केचिद् वातादिषु इन्ति ॥ ३१ ॥
चक्रपाणिः - त्रीन् पन्चेत्यादिना स्नेहनार्थमनुवासनमाह । अत ये वातादिकानामिति पठन्ति, तेषाम् आदिशब्देन पित्तकफयोरपि ग्रहणम् । बहुवचनन्तु तद्गुणसंविज्ञानबहुब्रीहिणा वातस्य ग्रहणाद् बहुत्वसंख्यायोगादुपपन्नम् । यथोक्तं कुष्ठनिदाने – “वातादिषु प्रदुष्टेषु " इति । तथा स्वगाश्रितेऽपि “वातादीनां रसादीनाम्” इति बहुत्वं निर्द्दिष्टम् । अन्ये तु - वाताधिकानाम् इति पठन्ति । अत्र चतुर्णां षण्णां स्नेहानां युग्मरूणामपि दानमविरुद्धमेव, एतदनुवासनस्य निरूहाङ्गतया स्नेहनार्थं क्रियमाणत्वात् । अयुग्मादानन्तु " वस्तीनयुग्मान्" इत्यनेन स्वप्रधानतयानुवासनस्य विहितमिति भिन्नविषयतया न विरोधः, यतः स्नेहन प्रयोजनमनुवासनमेतेन स्नेहे भूत एवाऽयुग्मदानेन निवर्त्तनीयम् । किंवा अयुग्मा तन्वतो व्याख्यानेन संख्ध्वोच्यते । तथाहि - तीनू, पच, वीनू चतुर इति सप्त, पञ्च चतुर इति नव, पञ्च षडित्येकादश इति पञ्च विकल्पा इह विधीयन्ते । तन्त्रान्तरे स्नेहस्य युग्मदानमुक्तम्, यथा- " रूक्षस्य बहुवातस्य द्वौ वीनू चाप्यनुवासनान् । दद्यात् स्निग्धरुनु ज्ञात्वा ततः पश्चानिरूहयेत्” इति । स्रोतःशब्देन विबद्ध शिराऽभिहिता ॥ ३२ ॥
चक्रपाणिः - सम्प्रतिक्रमागतशिरोविरेचनस्य कल्पनामसम्यगयोगातियोगलक्षणञ्चाह - विशुद्धत्यादि । विशुद्धदेहस्येति एतच पञ्चकर्मसम्पादनीयकर्त्त विषयत्वं शुद्धिपूर्वकत्वञ्च शिरो
·