________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सिद्धिस्थानम्। ३६४३ काले त्रयोऽन्तेऽन्तरितस्तथैकः स्नेहा निरूहैः सहिताश्च षट् स्युः। योगे निरहास्त्रय एव देयाः स्नेहास्तथा षट् च परादिमध्याः॥३१॥ इति। सानुवासना निरूहा द्वादश कम्मसु प्राक् स्नेह एको निरूहवस्तिः पूर्वमेकः स्नेहवस्तिस्ततो निरूहवस्तिस्ततः परतः पञ्च सानुवासना निरूहा इति कम्मैसु द्वादश वस्तयः। तथा च-एकोऽनुवासनवस्तिः पूर्वं ततो निरूहस्ततोऽनुवासनं ततो निरूहस्ततोऽनुवासनं ततो निरूहस्ततोऽनुवासनं ततो निरूहस्ततोऽनुवासनं ततो निरूहस्ततोऽनुवासनं ततो निरूह इति द्वादश कर्मसु वस्तयः। काले इत्यादि। काले सान्वासनात्रय इति षट्, तत्र प्राक् स्नेह एको निरूहात् पूच्चमेकः स्नेहवस्तिस्ततो निरूहस्ततोऽनुवासनवस्तिस्ततो निरूहस्ततः स्नेहवस्तिस्ततो निरूह इति षट् सानुवासना निरूहा वस्तयः काले । अथ योगे तथाढेन सानुवासनाः षड़, वस्तयः। तद् यथा-त्रय एव निरूहा देयास्तथा परादिमध्याः स्नेहाश्च त्रय इति षट् । तथा च-पूच्चमेकोऽनुवासनवस्तिस्ततो निरूहस्ततः स्नेहवस्तिस्ततो निरूहस्ततः स्नेहवस्तिस्ततो निरूह इत्येवं षट योगे स्युरिति। परादिमध्यास्त्रयः स्नेहास्त्रयो निरूहा इति ॥ ३१ ॥ विभागमाह। एकमनुवासनं दत्त्वा दीयन्त इति सान्वसनाः, एवमनुवासनेन प्रत्येकं योगाद द्वादश निरूहाश्चतुर्विंशतिर्वस्तयो भवन्ति । प्रागित्यारम्भे। परत इति द्वादशनिरूहोत्तरकाले । निरूहान्मरिताश्च षट् स्युरिति निरूहेणान्तरीकृताः, एवञ्च द्वादश वस्तयः पूरणीयाः। पन्चैव परादिमध्या इति पञ्च स्नेहा अन्ते मध्ये आहौ च येषां विभक्तास्ते तथा । अव चादौ स्नेहद्वयम्, अन्ते च स्नेहद्वयम्, निरूहलयमध्ये चैकमनुवासनम्, एवं पञ्च स्नेहा भवन्ति। ये तु निरूहदिन एवानुवा नं वदन्ति, तन्मते आदावेक एव, अन्तेऽपि दिनान्तरे एकः, एवं पञ्च भवन्ति । एवं कमेकालयोरपि निरूइदिन एव दिनान्तरे अनुवासनं व्याख्यः । भव चैकस्नेहान्तरितानां निरूहदाने वातक्षोभो नाशङ्कनीयः। कर्मादिषु निरूहा यापनावस्तिरूपा दीयन्ते, ये स्निग्धाः एवेति कृत्वा न वातक्षोभका भवन्ति । एते च कर्मादयो यद्यपि शास्त्रप्रदेशेषु न व्यव हयन्ते, तथापि तद्विद्यव्यवहारारार्थमेवेयं कर्मादिसंज्ञा, यथा ममकमहाममकतैलादिसंज्ञा, तेन कर्मादिसंज्ञा शास्त्र व्यवहारादर्शनात् कर्मादिप्रतिपादको ग्रन्थोऽनार्ष इति यदुच्यते, तनिरस्तम् । कर्मादिसंज्ञा च तन्त्रान्तरेऽप्यस्ति, तथाहि जतूकर्णः,–“वस्तयस्त्रिंशत् षोड़शाष्टौ च कम्मेकालयोगा निरूहा स्नेहान्तरिता द्वादश षट् वयः एकस्नेहारम्भा पञ्च एकान्ताः" इति ।
• निशन्मताः कर्मसु वस्तयो हि कालस्ततोऽर्दैन ततश्च योगः। सान्वसना द्वादश बै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च ॥ काले त्रयोऽन्तः पुरतस्तथकः स्नेहा निरूहान्तरिताश्च षट स्युः। योगे निरूहास्य एव देयाः स्नेहास्तथा पञ्च परादिमध्याः ॥ इति पाठान्तरम् ।
For Private and Personal Use Only