________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६३८
चरक-संहिता। [ कानासिद्धिः मूले निषिक्तो हि यथा द्रुमः स्यानीलच्छदः कोमलपल्लवामः। काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन ॥ १८ ॥
(अपत्यसन्सानविवृद्धिकारी काले यशस्वी बहुकीर्तिमांश्च।) स्तब्धाश्च ये सङ्कुचिताश्च केचित् ये पङ्गवो येऽपि च भग्नरुमाः । येषाश्च शाखासु च वातरोगाः शस्तो विशेषेण हि तेषु वस्तिः॥ आध्मापिते विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च। एवं प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च वस्तिरिष्टः ॥ हत्ला गुरुत्वात् तस्य लघुतां हवा औष्ण्यात् तस्य शत्यं हत्वाशु मन प्रसादादिक दधाति ॥१७॥
गङ्गाधरः-तत्र दृष्टान्तमाह-मूल इत्यादि। नीलच्छदो द्रमो मूले जलेन सिक्तो हि यथा कोमलपल्लवानः सन् काले महान् भूला पुष्पफलप्रदः स्यात, तथा नरोऽप्यनुवासनेन मूले पायो सिक्तः सन् मनःप्रसादादिमान् भूला खक्रियाकरः स्यात् ॥१८॥
गङ्गाधरः-ये च रोगा अनुवासनेन नश्यन्ति तदाह-स्तब्धाश्चेत्यादि । ये नरा वातेन स्तब्धास्तथा सङ्घ चितादयश्च येषां शाखामु रक्तादिषु पात रोगास्तेषु विशेषेण वस्तिरनुवासनवस्तिः शस्तः। एवमाध्मापितपुरीपादि. किञ्चिदिहास्ति कर्म' इति केचित् पठन्ति । तैलकृत्यमेव सकारणं व्याकरोति - स्नेहेनेत्यादि । तैलञ्च स्नेहानुवासने पक्कमेव, भपकस्य तु “न चामं प्रणयेत् स्नेहं यदभिप्यन्दयेद् गुदम्' इत्यनेन निषिद्धत्वात्। भन्न तैलानिलयोर्मेलके द्रव्यप्रभावात् तैलमेव वातं हन्ति, न वातरतैलम् । भगुरवञ्च यद्यपि हैले वाते चास्ति, तथापीह प्रभावाच्च वातसूक्ष्मावयवसम्बन्धकारकं तैलं स्नेहादिना वातं जयति। तेन समानमप्यणुस्वमिह विरुद्धार्थ कार्येवेति। तलस्य यथोक्तकार्यकत्र्तृत्वे घटान्तमाह-मूल इत्यादि। 'मूल'दृष्टान्तेन चानुवासनेन साक्षात् तर्पणीयस्य गुदस्य देहमूलत्वं दर्शयति। उक्तं हि पराशरे-“मूलं गुदं शरीरस्य शिरास्तत्र प्रतिष्ठिताः। सर्च शरीरं पृष्ठश्च मूर्दानं पादमाश्रिताः" इति। तथानुवासनादपि नरो बलवीर्य्यायपेतोऽपत्यवांव स्यादिस्यर्थः ॥ १७ ॥ १८॥
चक्रपाणिः-सामान्येन निरूहानुवासनयोगुणमाह- स्तब्धाश्च य इत्यादि। भग्ना इति
For Private and Personal Use Only