________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
म अध्यायः] सिद्धिस्थानम्। ३६३५ प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्। सायञ्च भोज्यं परतस्त्राहे वा त्राहेऽनुवास्योऽहनि पञ्चमे वा ॥ . द्वाहे त्राहे वाप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनञ्च । एकं तथा त्रीन् कफजे विकारे पित्तात्मके पश्च च सप्त वापि ॥ वाते नवैकादशवा पुनर्वावस्तीनयुग्मान् कुशलो विदध्यात् ॥१४॥
गङ्गाधरः-अथ दत्ते तदनुवासनीये स्नेहे प्रत्यागते सति निशि व्युषिताय प्रभाते दिवा भोज्यं प्रदेयं परतस्वाहे वा सायश्च रात्री भोज्यं देयम् । चाहे पुनरनुवास्योऽथवा पश्चरे ऽहन्यनुवास्यः । एवं द्वाहे वा त्राहे वा पश्चमे वा दोषमवेक्ष्य निरूहं दत्त्वा निशि चानुवासनं देयम् । एवं प्रकारेण वस्तिमेकं कफने व्यायौ विदध्यादयवा त्रीन वस्तीन्, पित्तात्मके विकारे पश्च वा सप्त वा वस्तीन्, वाते विकारे नव वस्तीनथवकादश वस्तीन् विदध्यात्, न तु कुत्रापि युग्मान् वस्तीन विदध्यात् ॥१४॥
चक्रपाणिः-प्रत्यागते चेत्यादौ अनुवासनीय इत्यनुवासनस्नेहे। व्युषितायेति निर्विकारच रातिपुषिताय दिवा भोज्यं देयम्, तथा सायञ्च भोज्यं देयम् । अनुवासनानन्तरं पुनरनुवासनकालमाह-पहे वेत्यादि। अतापि यहपश्चाहव्यवस्था पूर्ववत् । अयञ्चानुवासनकालो निरूहदिन एव दातव्यानुवासने परिज्ञेयः। अन्ये तु पठन्ति यत् परतो यहे वा लबहेऽवानु वास्योऽहनि पञ्चमे वा इति, व्याख्यानयन्ति च-परतो रहे वा खयहेऽनुवास्योऽहनि पञ्चमे वेति । अत्र तु रहेऽनुवासनतिप्रबलस्य वातस्य, अनतिवृद्धवातस्य लरहे, पञ्चमे तु वृद्धकफपित्तस्येति व्यवस्था। द्वितीयदिनानुवासनं हारीतेऽप्युक्तम्, वचनं हि-"दृष्टातिवृद्ध पवनस्य रूपं दिने दिने वस्तिमुदाहरन्ति ।" सुश्रुतेऽप्युक्तम्-"नस्य बहुवातस्य स्नेहवस्तिं दिने दिने। दद्याद वैद्यस्ततोऽन्येषामग्न्यावाधभयात् यहात्" इति । इहापि “रूक्षनित्यस्तु" इत्यादिना "उदानावृते वाताग्न्यादौ दिने दिने" इत्यन्तेन रहे दानं विधास्यति, तेन 'द्वरहे वा बघहे वा' इति पाठः साधुः। द्वग्रहशब्देन धान दिनद्वयसम्बन्धमातमुच्यते, न पहपूरणम् , तेन प्रथमदिवसदत्तानुवासनात् प्रभृति पूरणेन तृतीये दिवसेऽनुवासनं प्राप्नोतीति यदुच्यते, तनिरस्तम् । एवं पहेऽपि तृतीयाहसम्बन्ध एव विवक्षितो ज्ञेय इति । सम्प्रति दोषभेदेनानुवासननियममाह-एकं तथा त्रीनित्यादि। एतच्च 'संख्याः कति' प्रश्भस्योत्तरम्, अपरं सङ्घयाप्रश्नोत्तर-त्रिंशन्मता कर्म नु' इत्यादिना भविष्यति । कफपित्तयोश्च यद्यप्यनुवासनं न विहितम्, तथापि वातानुगतकफपित्तविषयतयैतद् बोद्धव्यम्। पुनर्वेत्यनेन वाते नव एकादश वा कुर्यात् । अयुग्मानित्यनेन द्विचतुःषड़ादि. संख्यया युग्मदानच निषेधयति । अयुग्मदानं प्रभावादेवाखोपकारीति महर्षिवचनाद् बोध्यम् ।
For Private and Personal Use Only