________________
Shri Mahavir Jain Aradhana Kendra
३६३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता | शीते वसन्ते च दिवानुवास्यो रात्रौ शरद ग्रीष्मघनागमेषु । तानेव दोषान् परिरक्षिता ये स्नेहस्य पानं प्रति कीर्त्तिताः प्राक् ॥ १३ ॥
[ कल्पनासिद्धिः
स नरो भोज्यः । स चेदनुवासनार्हो भवेत् तदा ततः परं निशि नात्यशितोऽल्प भुक्तवाननुवासनीयः स्यात् ॥ १२ ॥
गङ्गाधरः- तत्र केष्वितिप्रश्नोत्तरमाह - शीत इत्यादि । घनागमः प्रादृट आषाढ श्रावणौ । स्नेहस्य पानं प्रति तानेव दोषान् परि ये रक्षिता यतो यतो विहाराहारादितो निवर्त्य रक्षयितव्यास्ते प्राक् स्नेहाध्याये प्रकीर्त्तिताः ॥ १३ ॥
रसादिकम् । किमर्थं विहितं भोज्य संसर्गश्च विरिक्तवत् । विरेकः पावकं हन्ति तदधिष्ठान संप्लवात् । न तु वस्तिस्तथा तस्मात् समुन्नयति पावकम्" दति । निरूह एव दोषाऽग्निबलापेक्षरसादिना पेयादिना भोजनं दर्शयन्नाह - समीक्ष्य दोषबलं यथार्हमिति । बलमित्यग्निबलम् । नरस्तत इत्यादिना निरूढस्यानुवासनमाह । 'निशि' इत्यनेन निरूहानन्तरं तद्दिने क्रियमाणमनुवासनं निश्येव कर्तव्यमिति दर्शयति, न शीते वसन्तेऽपि सद्यो निरूदस्य राखावेवानुवासनं देयः । अन्ये तु निशीत्यनेन तदहरेव निरूढाय सायमनुवासनं देयमिति दर्शयति यथावक्ष्यमाणविभागेन राखौ दिवा वा देयमित्याहुः | अनुवासना इतिवचनेन यदि सामता मन्दो वा पावको भवति, तदा तदहरनुवासनं न देयमिति सूचयति । अत एव जतूकर्णे द्वितीयदिवस एवानुवासनमुक्तम्" ततस्त्रान्निरूहे व्युषिते भुक्तवतोऽनुवासनम्” इति । हारीतेऽपि - "व्युष्ट रजन्यां प्रसमीक्ष्य तस्माद् बलाबलं वाप्यनुवासनीयः" इत्युक्तम् । 'सद्यो निरूदोऽनुवास्यः स्यात्' इति ani हिजनितवातक्षोभपुरुषविषयम् ॥ ११।१२ ॥
For Private and Personal Use Only
9
चक्रपाणि: - 'निशि' इत्यनेन यन्निशासमीपेऽनुवासनं विहितम्, तदेव कालभेदेन भिक्षकालं दर्शयचाह - शीत इत्यादि । शीतशब्देन शिशिरहेमन्तयोरपि ग्रहणम्॥ दिवेति निशा समोपे दिवाभागे, रात्रावपि च दिनसमीपे रात्रौ । दोषान् परिरक्षितान् दृष्ट्वा अन्तरच दोषवर्जनेन परिरक्षिता ये स्नेहस्य पाने परिकीर्त्तिताः स्नेहाध्याये " श्लेष्माधिको दिवा शीते" इत्यादिना प्रन्थेन, स एवाऽकालपीतस्नेहदोषा भवन्ति । त एव यथोक्तकालविपर्ययकृतानुवासनेऽपि समान· म्यायाच्चैकदेशाभिधानेनापरै कदेशानुमानाच्च ज्ञेयाः ॥ १३ ॥