________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः]
सिद्धिस्थानम्। ३६३१ क्रमात् कफः पित्तमथानिलश्च यसप्रति सम्यग् वमितः स दृष्टः। हृत्पार्श्वमूद्धेन्द्रियमार्गशुद्धो ततो लघुत्वेऽपि च लक्ष्यमाणे ॥ विरेकमिष्टमाहुः। तत्र मानकरणे क्रममाह-द्वित्रीनित्यादि। विरेचने द्वौ वेगावथवा त्रीन् वेगान् सविट्कानपनीय विहाय मलं मेयम्, वमने तु पीतमौषधमपनीय मेयम् ॥८॥
गङ्गाधरः-पित्तान्तं वमनं कफान्तं विरेकमिष्टमाहुरिति यत् तद विवृणोति । क्रमादित्यादि। व्यतिक्रमे तु यस्यति सोऽसम्यगवमितस्तत्र हृदादिशुद्धो लक्षणप्रतिपादनार्थमिहाभिधानम्, तेन यदुच्यते-आन्तिकी वैगिकी मानिकी लैङ्गिको च चतुविधा शुद्धिरिहोच्यते वमनविरेचनयोः, तदस्माकमसम्मतमेव, किन्तु लैङ्गिकी चैका शुद्धिः; तत च पित्तान्तम्' तथा 'क्रमात् कफः' इत्यादिग्रन्थवक्ष्यमाणञ्च लिङ्गं वमने, विरेचने च 'कफान्तञ्च' तथा 'स्रोतोविशुद्धीन्द्रिय' इत्यादिग्रन्थवक्ष्यमाणञ्च लिङ्ग ज्ञेयम्। यदव दोषागमनकर्मणः सम्यगविशुद्धिलिङ्गं लक्ष्यतेऽय मानाञ्च वेगाच्च दोषागमनाचोक्तम, किमिदं व्यस्त समस्तं वेत्यादिनाऽऽक्षिप्तम्, तदनभ्युपगमनिरस्तमेव । अन्येषान्त्वत्र परीहारा विस्तरभयान लिखिताः। जघन्यादिशुद्विवैविध्यश्चात जघन्यमध्योत्कृष्टदोषविषयतया व्यवस्थापनीयम् , जघन्यादिशुद्विलक्षणेऽपि यद वेगेन जघन्यादिशुद्विलक्षणताऽभिधानम्, तत् प्रायोभावितया ज्ञेयम्, दोषमानभेदेन जघन्यादिमानभेदः पारमाथिकः, तेन यत्र वमनेऽष्टाभिगैप्रिस्थदोषस्नु तिर्भवति तत्र प्रवरैव शुद्धिः, यत्र वमने षड़ भिरेव वेगैः सार्द्रप्रस्थदोषस्नु तिर्भवति तत्र मध्यैव शुद्धिः, यस च चतुर्भिरपि वेगैरेकप्रस्थदोषत्र तिः तत्र जघन्यशुद्धिरेव, एवं विरेचने दाहाय॑म् । पित्तप्रवृत्तिरन्ते यस्मिन्, तत् पित्तान्तम्, एवं कफान्तमपि व्याख्येयम्। तेन "क्रमात् कफः पित्तमथानिलश्च” इत्यनेन यत् सम्यकशुद्धिलक्षणं वक्तव्यम, तथा 'प्राप्तिश्च विपित्तकफानिलानाम्' इत्यनेन च सम्यगविरेचनलक्षणं यद वक्तव्यम, तदनेन सहाऽविरुद्धं भवति, तन च यदनिलागमनमन्ते वक्तव्यम्, तत् पित्तान्तस्य कफान्तस्य सूचकतया ज्ञेयम, निःशेषकृते याशयगते पित्त कफे च वायुः केवलः सति। तेन च केवलवायुसरणेन पित्तान्तता कफान्तता च जायते । ननु यदि 'क्रमात कफः' इत्यादिनैव अन्येनाऽयमर्थोऽभिहितः तत् कथमिह पित्तान्तञ्च वमनं कफान्तश्च विरेकमाहुरिति कृतम् १ बमः, वेगसंख्यादोषमानभेदप्रतिपाद्यमानजघन्यादिशुद्धिखये पित्तान्तत्वापनुगतिप्रतिपादनामिहाभिधानम् । एवं तद्वमनविरेचनसम्यग्योगलक्षणाऽभिधाने शिष्यस्य, प्रबलदोषऽपि पुरुषे अयोगशुद्धावेव जघन्यशुद्धिगतवेगमानोदये सति अथ पित्तान्तस्वायनुदये जघन्यशुदिभ्रमः स्यात् । एवमन्यदप्युदाहार्यम्। वमने च विरेके च यथा दोष. मापनं कर्तव्यम्, तदाह-द्विवानित्यादि। द्विवानित्यव्यवस्थितभाषणेन मलभागस्यामेयतां दर्शयति । वमने च पीतमिति वमने पीतमौषधं वर्जयित्वा शेषो मेयः ॥ ८ ॥
चक्रपाणिः-सम्प्रति “किञ्च कृतेषु" इत्यादिप्रश्नस्योत्तरं यथाक्रममाह-क्रमादित्यादि। क्रमादित्यनेन वचनेन यथोक्तकमलनेन कफायागमनं न सम्यग्योगलक्षणमिति दर्शयति। यतः
For Private and Personal Use Only