________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६३०
चरक-संहिता। [कल्पनासिद्धिः जघन्यमध्यप्रवरेषु वेगाश्चत्वार इष्टा वमने षडष्टौ। दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च ॥७॥ पित्तान्तमिष्टं वमनं तथाई मधः कफान्तञ्च विरेकमाहुः। वित्रीन् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम्॥८॥
गङ्गाधरः-चमनविरेचनयोः प्रधानादिषु मात्रामु लिङ्गमाह-जघन्येत्यादि । वमने जघन्ये वेगाश्चत्वारो मध्ये षट् प्रवरेऽष्टो वारा इति। विरके तु जघन्ये दश वेगा मध्ये द्विगुणा विंशतिवाराः प्रवरे त्रिगुणास्त्रिंशद्वारा इति वगिक एकप्रकारस्त्रिविधः। अथ मानिकस्त्रिविधः प्रकार उच्यते प्रस्थस्तथा द्वित्रिचतुर्गुणश्चेति। वमने प्रवरा शुद्धिः प्रस्थो, मध्ये त्रिपात्मस्थः, कनिष्ठेऽद्धप्रस्थ इत्युन्नेयम् । तथा विरेके द्वित्रिचतुर्गुणः प्रस्थो जधन्यमध्यप्रवरशुद्धिषु । इति मानिकी विधा शुद्धिः। अत्र प्रस्थोऽर्द्धत्रयोदशपलमुक्तं तन्त्रान्तरे--‘वमने च विरेके च तथा शोणितमोक्षणे। अद्धत्रयोदशपलं प्रस्थमाहुमनीषिणः' इति अर्द्धन हीन त्रयोदशपलं सार्द्धद्वादशपलमिति ॥७॥ ___ गङ्गाधरः-आन्तिकी त्रिधा शुद्धिमाह-पित्तान्तमित्यादि। वमनमूद्ध पित्तान्तमिष्टम् आदौ कफवमनं ततः पित्तवमन मिति। अधस्तात् कफान्तं
चक्रपाणि:--प्रधानशुद्धयादिलक्षणं प्राह-जघन्येत्यादि । चतुर्भिवेगैर्यत् शोधनं वमनं तद् जघन्यम्, यत् तु षडभिस्तन्मध्यमम्, यत् त्वष्टाभिस्तत् प्रवरम् । विरेके जघन्ये दश, मध्ये तु विरेचने दद्विगुणा विंशतिरित्यर्थः, प्रवरे तु विरेचने त्रिगुणां दश सिंशदित्यर्थः । वेगसंख्याविभेदेन जघन्यादिभेदमभिधाय दोषमानभेदेनापि विरेचनस्य जघन्यमध्यप्रवरतां यथाक्रममाहप्रस्थस्तथेत्यादि। द्विगुणः प्रस्थो जघन्ये विरेचने, विगुणश्च मध्यमे चतुर्गुणस्तु प्रवरे। भत्र च प्रस्थशब्देन सा योदशपलान्युध्यन्ते। उक्तं हि तन्त्रान्तरे,–'वमने च विरेके च तथा कोणतमोक्षणे। साद खयोदशपलं प्रस्थमाहुर्मनीषिणः' इति ॥ ७॥
चक्रपाणिः-पित्तान्तमिष्ट वमनं विरेकादमिति विरेके यन्मानं जघन्यमध्यप्रवरविभागे प्रोक्तं यथाक्रमम्, तथा वमनेऽपि जघन्यमध्यप्रवरविभागे तदर्द ज्ञयम्, परन्तु यत् पित्तान्तत्वं बमनस्य, कफान्तत्वं विरेकस्य, तत् विविधशुद्धावप्यर्थागतं ज्ञयम् । यदा चतुर्भिवेगैः प्रस्थमाने दोषे गते पित्तान्तत्वं सम्यग्वमनशुद्धिजलक्षणमुपलभ्यते तदा जघन्या शुद्धिः, यदा च विरेके दशभिर्वगाईप्रस्थमानदोषगमनेन कफान्तत्वं विरेचनसम्यगयोगलक्षणमुपलभ्यते, तदा विरेचनस्य जघन्या शुद्धिर्भवति, एवं मध्यप्रवरशुद्धावपि वमने पित्तान्तत्वं विरेचने च कफान्तत्वं सम्यगयोगलक्षणं ज्ञयम्। वेगसंख्या दोषमानाभिधानानन्तरं सम्यकशुद्धिलैङ्गिकशुद्धः पित्तान्तस्वादि
For Private and Personal Use Only