________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममध्यायः
३६२६
सिद्धिस्थानम् । पैयां विलेपीमकृतं कृतञ्च यूषं रसं त्रिद्विस्थकशश्च । क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः ॥ यथाणुरमिस्तुणनोमयादवः सन्धुदयमाणो भवति क्रमेण । महाम् स्थिरः सर्वसहस्तथैव शुद्धस्य पेयादिभिरन्तग्निः ॥६॥
संस्कृतमसंस्कृतमेकशश्च क्रमेण सेवेत। एवं प्रधानादिमात्रया शुद्धिभ्यां शुद्धः। पेयादिक्रमसेवने हेतुमाह - यथाणुरित्यादि। अणुः सूक्ष्मोऽग्निर्यथा क्रमेणाल्पाल्पकाष्ठयोगेन क्रमेण वृद्धः सन् महान स्थिर सर्वसहः स्यात्, तथा पेयादि क्रमेणान्तरंग्निः क्रमेण रद्धः सन् महान स्थिरः सव्वसहः स्यादिति ॥५। ६॥ .
चक्रपाणिः-सम्प्रति क्रमश्च क इति प्रश्न त्योत्तरमाह । वमनविरेचनोत्तरभाविपेयाक्रममाहपेयो विलेपीमित्यादि। यवागूर्बहुसिकथा विलेपी विरलद्वा । उक्तं हि-"सिकथकैः रहितो मण्डः पेया सिकथसमन्विता । यवागूबहुसिक्था स्थाद् विलेपी विरलद्रवा" इति। अत्न अकृतयूषः स्नेहलवणाघसंस्कृतः, कृतयूषः स्नेहलवणादिसंस्कृतः। एवं रसेऽपि कृताकृतव्यवस्था। यदुक्तं सूदशास्त्रे-“भस्नेहलवणं सर्चमकृतं कटकैविना। विज्ञेयं लवणस्नेहकटुकः संस्कृतं कृतम्" इति । सिरिस्यसकालत्रयं व्याप्य, द्विरित्यनकालद्वयम्, एकश इत्येकान्नकालम् । एतच्च चिरित्यादि प्रत्येकं पेयादिभिः सम्बध्यते । एतच्च खिरित्यादिपक्षवयं प्रधानशुद्धिशुद्धाद्यपेक्षया यथाक्रम जयम् । तेन प्रधानशुद्धिशुद्ध प्रत्येकं तिः पेयादि कर्त्तव्यम्. तेनान्नकालखये पेया। ततः परेणासकालतये विलेपी, ततः परेणानकालत्रये कृताकृतयूषसहितमन्नम्, ततोऽपि च परेण कृता. कृतरसेनाममात्रये देयम् । एवं द्वादशभिरनकालेर्वमनदिनसायाह्वात् प्रभृति सप्तरातेण पेयाक्रमः । भयमेव क्रम उपकल्पनीयेऽपि-"ततः सायाह्ने लोहितशालितण्डुलानाम्" इत्यादिना, यावत् "द्वादशे चालकाले" इत्यनेनोक्तः। अव तु यूषरसयोस्तु यद्यपि कालविभागो न प्रतिपादितः, तथापि यूषकाललये रस.काललये च प्रथम अकृतस्य उत्तरकाले च कृतस्य यूषस्य, एवं रसत्यापि काल इति विभागः कथनीय इति । एवं द्विः पेयाक्रमे तथा एकशश्च पेयाक्रमे विभागो वर्णनीय इति। एककाले तु पेयादिक्रमे यद्यपि कृताकृतयूषरसयोः कालविभागो न प्राप्यते, तथाप्येकस्मिोक काले स्तोकसंस्कारेण यूपरसयोस्तत्र कृताकृतत्वं ज्ञेयम्। प्रधानशुद्धौ भूरिदोषागममनोभादम्निमान्ध सम्भवति, तेन तत्र पेयादिक्रमश्चिरं क्रियत इति ज्ञेयम् । प्रधानशुद्धयादिलक्षणशाने वक्ष्यमाणम् । पेयादिक्रमस्य विशोधनमन्दीकृताग्नेर्दीपकत्वं दृष्टान्तेन दर्शयशाहपयेत्यादि ॥३॥
१५५
For Private and Personal Use Only