SearchBrowseAboutContactDonate
Page Preview
Page 1399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२८ [ कल्पनासिद्धिः चरक संहिता | श्लष्मोत्तरश्यति दुःखं विरिच्यते मन्दकफस्तु सम्यक् । अधः कल्पे वमनं हि गछेद विरेचनं वृद्धकफे तथोर्द्धम् ॥ स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च । स्निग्धस्य सुखिन्नतनोर्यथावद् विरेचनं योग्यतमं प्रयोज्यम् ॥ नीयः कस्मादित्यत आह- श्लेष्मेत्यादि । यतः श्लेष्मोत्तरः पुमानऽदुःखं सुखं छर्दयति तस्मात् श्लेष्म करनाम्यादिभिरुत्क्लेशनीयो वम्यः । यतो मन्दकफः सम्यगदुःखं सुखं विरिच्यते तस्मात् कफावृद्धिकरैः स्नेहनीयो विरेच्यो जनः स्यादिति । तत्र कारणमाह- अध इत्यादि । कफेऽल्पे वमनमधो नियछेत् । वृद्धकफे विरेचनमृद्ध नियच्छेत् । स्निग्धायेत्यादि । वान्तस्य सम्यग्वमितस्याहारेऽनुक्रमेण पेयादिः । स्निग्ध स्विन्नस्य विरेचनं प्रयोज्यं सम्यग्विरिक्त पेयादिकं इति यदा सम्बन्धो भवेत्, तदा उत्क्लेशनं पित्तस्यत्र ज्ञेयम् । किंवा, उत्क्लेशनीयः इति मानुचर्स'त एव तेन कफावृद्धिकरै रसेयू पैश्च भोजनीय इति शेषः । एतद् विरेचनार्थं प्रतिभोजनं 'सहं ज्ञेयम्, वमनार्थन्तु प्रतिभोजनमेकाहमेव । उक्तं हि - " स्नेहात् प्रस्कन्दनं जन्तुस्त्रिराश्रोपरतः पिबेत् । स्नेहवद द्रवमुष्णञ्च श्रहं भुक्तवा रसौदनम् । एकाहोपरतस्तदृषद् भुक्तत्रा प्रच्छनं “पिबेत्" इति । वामनीयस्य श्लेष्मोत्तरत्वे कर्त्तव्ये विरेचनीयस्य चापकफत्वे सम्पाद्य उपपत्तिमाह - श्लेष्मोत्तर इत्यादि । उक्तविपर्यये हेतुमाह- अध इत्यादि । कफे रूपे सति वमनं 'पीतं वमनमकृत्वैवावो याति, वृद्ध कफे तु विरेचनं प्रयुक्तमूढ़" या'त वमनाय सम्पद्यत इत्यर्थः । " स्निग्धाय देथं वमनमिति वमनपान दिनेऽभ्यङ्गेन स्निग्धाय वमनं देयमित्यर्थः । पानजनित स्नेहस्तु पूर्वमेवोक्तत्वान पुनरभिधान मर्हति । अन्ये तु उपशान्तस्नेहगुणाय इति वदन्ति । यथोक्तमिति मदन कल्पोक्तविधिना देयम् । वमनानन्तरं कर्त्तव्यमाह - वान्तस्येत्यादि । पेयादिः 'पेयां विलेपीम्" इत्यादिना वक्ष्यमाणः । वमनक्रममभिधाय विरेचनक्रममाह - स्निग्धस्येत्यादि । सुस्तिनोरिति सम्यकस्विनदेहस्य, अयञ्च विरेचनाङ्गस्नेहस्वेदकमो वमनानन्तरभाविविरेचनेऽपि - पेयादिक्रमोत्तरकालं कर्त्तव्यः, यदुक्तम् – “विलेप्याः क्रमागतच नं पुनरेव स्नेहस्वेदाभ्यामुपपाद्य विरेचयेत्" इति । स्नेहानन्तरञ्च यत् साहं विरेचनार्थं प्रतिभोजनम्, तदुपक्रमाभिधानानुषङ्ग• प्रतिपादितमेवेति न पुनरिह प्रतिपाद्यते । यथावदिति कल्पस्थानोक्तविधिना | योग्यतममिति शरीरदोषाद्यपेक्षया यद विरेश्वनं यौगिकं भवति, तद देयम् ॥ ५ ॥ 1 For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy