________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६२४
चरक संहिता |
विकल्पहेतुर्नामानि तीक्ष्णमध्यात्पलचणम् । विधिश्वावस्थिको मानं स्नेहपाकश्च दर्शितः ॥ ६६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[दन्तीद्रवन्तीकरूपः
इत्यग्निवेशक तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः ॥ १२ ॥
कल्पस्थाने प्रथमाध्याये दर्शितः । शोधनस्य विरेचनसंज्ञा । जाङ्गलदेशादिकालादीनां गुणाः मदनफलादीनां गुणाः प्रत्यध्याये । मदनफलादीनां योगानां षट् शतानि द्वादशस्वध्यायेषु स्वेषु स्वपूक्तानि । अस्मिन्नध्याये विकल्पहेत्वादीनि चेति ॥ ६६ ॥
गङ्गाधरः - अध्यायं समापयति- अग्नीत्यादि ।
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमेऽस्मिन द्वादशेऽध्याय एव च । दीद्रवन्तीकल्पेऽत्र वद्यगङ्गाधरेण तु । कृते जल्पकल्पतरौ कल्पस्थाने तु सप्तमे ।
स्कन्धेऽत्र द्वादशाध्याये जल्पशाखा समापिता ॥ १२ ॥
शोधनसंज्ञा-उभयं वा शरीरमलविरेचनादित्यादिनोक्ता । फलादीनां गुणा मदनफलादिकल्पे एवोकाः | योगशतानि पडिति 'विशतं पञ्चपञ्चाशत्' इत्यादिनोक्तम् । विकल्प हेतुः - 'सुखोपभोगानामित्यादिना मन्येनात्रैवाध्याये प्रोतः । नामानि मदनफलादीनामेव, तानि च प्रत्यध्यायमुक्तानि । तीक्ष्णमध्यारुपलक्षणमिति सुखं मिं महावेगं इत्यादिनोक्तम् । विधिश्वावस्थिकः 'देयं ह्यनिगते पूर्व्वम्' इत्यादिनोकः । शेषं सुगमम् ॥ ६६ ॥
For Private and Personal Use Only
इति महामहोपाध्याय चरक सुरानन- श्रीमछ क्रपाणि दत्तविरचितायामायुन्यददीपिकायां चरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां दन्तीद्रवन्ती कल्पव्याख्यानाम द्वादशोऽध्यायः ॥ १२ ॥
कल्पस्थानं समाप्तम् ॥
श्लोकसङ्ख्या ६७५ ॥ ॥ श्रीः ॥