________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एक अध्याया], कल्पस्थानम् ।
३६२३ स्नेहपाकस्त्रिधा ज्ञ यो मृदुर्मध्यः खरस्तथा। तुल्यो कल्केन निर्यासो भेषजानां मृदुः स्मृतः।। सम्पाक इव निासो मध्यो दवा विमुञ्चति । शीर्यमाणे तु निर्यासे वर्त्यमाने खरस्तथा ॥ ६३ ॥ खरोऽभ्यङ्ग स्मृतः पाको मृदुर्नस्तःक्रियासु च । मध्यपाकस्तु पानार्थे वस्तौ वापि नियोजयेत् ॥ ६४ ।। मानञ्च द्विविधं प्राहः कालिङ्गं मागधन्तथा। कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः॥६५॥ .....
तत्र श्लोको। कल्पार्थः शोधने संज्ञा पृथक् यत् तु प्रवर्तते । देशादीनां फलादीनां गुणा योगशतानि षट् ॥ गङ्गाधरः-स्नेहपाक इत्यादि। भेषजानां निर्यासस्तुल्यः कल्केन यः स मृदुः स्नहपाकः। शम्पाकफलस्य मध्यस्थो निर्यास इव स्नेहभेषजानां निासो यदा दर्वी मुश्चति, तदा मध्यः स्नेहपाकः स्यात् । स्नेहनिर्यासे शीय्येमाणे वय॑मान सति खरः स्नेहपाकः स्यादिति ॥ ३॥ ... गङ्गाधरः-त्रयाणां विषयानाह-खर इत्यादि। मध्यपाकस्य द्वौ विषयो पानवस्ती इति ।। ६४॥
गङ्गाधरः-मानस्य प्रकारादीनाह-कालिङ्गं मानवादिधर्मशास्त्रे सुश्रुते चोक्तम्, इह व्यवहारार्थ यच्च माग, मानं सुश्रुतेनाप्युक्त तदपि व्यवहारे तु मागध कालिङ्गात् श्रेष्ठमत इह माग, मानमुक्तमिति ॥६५॥ .:.
गङ्गाधरः-अथ स्थानार्थसंग्रहश्लोकानाह-तत्र श्लोकाविति । कल्पाथ इह चक्रपाणिः-स्नेहपाकत्रैविध्यमाह-स्नेहपाक इत्यादि। तुल्ये कल्केन निर्यास इति प्रक्षिप्तकल्कतुल्यतां गते पाकेन सञ्जाते निर्यासे सति । संयाव इवेत्या संयावः समघृतगुढ़गोधूमकृतपिण्ड उच्यते। शीर्यमाण इत्यादि खरपाकलक्षणम् । शीर्यमाण इति अवसीदति । वर्यमान इति अङ्गुलिपीडनावर्तितां गच्छति ॥ १३ ॥
चक्रपाणिः-खरपाकादिविषयमाह-खर इत्यादि ॥ ६४ ॥ चक्रपाणिः- कालिङ्गमित्यादिक केचिदत मानप्रतिपादकं मन्थं मानार्थ वर्णयन्ति ॥ ६५॥ चक्रपाणिः-कल्पार्थ इत्यादि स्थाना संग्रहः। कल्पार्थः कल्पा) मेदार्थम् इत्यादिनोक्तः ।
For Private and Personal Use Only