________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिताः
सिद्धिस्थानम् ।
प्रथमोऽध्यायः ।
+++
Acharya Shri Kailassagarsuri Gyanmandir
अथातः कल्पनासिद्धिं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
का कल्पना पञ्चसु कर्मसक्ता क्रमश्च कस्तेषु कृताकृतेषु । लिङ्ग तथवातिकृतेषु सङ्ख्या का किं गुणाः केषु च कश्च वस्तिः ॥ किं वर्जनीयं प्रतिक काले कृते कियान् वा परिहारकालः । प्रणीयमानश्च न याति वस्तिः केनति श्रीघ्र सुचिराच्च केन ॥
-
गङ्गाधरः- अथ स्थानोद्देशक्रमात् कल्पस्थानादुत्तर सिद्धिस्थानमाह । तत्र अध्यायोद्देशक्रमादादौ कल्पनासिद्धिमाह- अथात इत्यादि । सर्व्वं पूर्ववद्
चक्रपाणिः— पस्थानानन्तरं पारिशेष्यादेव सिद्धिस्थानमभिधीयते । सिद्धेरभिधायकं स्थानं सिद्धिस्थानम् । सिद्धिशब्देन चेह वमनादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते, एवम्भूतसिद्धिकारणाभिधायकतया चैतत् सिद्धिस्थानमुच्यते, किंवा कार्यकारणयोरभेदोपचारात् सिद्धिशब्देनेह सिद्धिकारणान्येव वमनादीनि उच्यन्तं उक्तं हि"सम्यक प्रयोगम्यैव कर्मणां व्यापतानाञ्च साधनानि सिद्धिषू | देक्ष्यामः" इति । न चैवं सिद्धिस्थान संज्ञान्युत्पच्या चिकित्सास्थानादीनामपि सिद्धिस्थानस्: ज्ञाप्रसक्तिरुजावनीया, यतः इयं संज्ञाऽत्रैव योगरूढ्या वर्त्तते, नान्यस ॥ १ ॥
चक्रपाणि:- सिद्धिस्थानाभिधानेऽपि सकल सिद्धिस्थानापेक्षणीयपञ्चकर्मकल्पनाद्यभिप्रायक
For Private and Personal Use Only