________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्याय:
कल्पस्थानम्।
३६१७ विरुद्धाध्यशनाजीर्णान् दोषानपि जयन्ति । स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विरेचयेत् ॥ ५३ ॥ एवं ज्ञात्वा विधीन् धीरो देशकालप्रमाणवित् । विरेचन विरेच्याय प्रयच्छन्नापराध्यति॥ नातिस्निग्धशरीराय दद्यात स्नेहविरेचनम्। स्नेहात् क्लिष्टशरीराय रूक्षं दद्याद विरेचनम् ॥ ५४५५ ॥ विभ्र शो विषवद यस्य सम्यग्योगो यथामृतम् ।
कालेष्ववश्यं पेयञ्च तस्मात् य ।त् प्रयोजयेत् ॥ ५६ ॥ सश्चीयन्ते कारणान्तरेण, तेषां ते दोषा नित्यकम्मणां तेन कर्मणा क्षयं यान्ति आतपानिलश्च क्षयं यान्ति। विरुद्धेत्यादि । विरुद्धाशनादध्यशनादजीर्णाच जातान् दोषानपि ते कातपानिला अपनयन्ति । परन्तु ते रूक्षाशनादयः पुरुषाः स्नेह्याः स्नेहयितव्याः, कस्मात् ? यस्मान्मारुताद्रक्ष्या रक्षणीया अतएव अव्याधौ तान् न विरेचयेत् ॥५३॥
गङ्गाधरः-एवमित्यादि। एवमनेन प्रकारेण विधीन विरेचने शाखा देशादिवित् विरेच्याय जनाय विरेचनं प्रयच्छन्नापराध्यति। नातीत्यादि। अतिस्निग्धशरीराय स्निग्धविरेचनं न दद्यात् । यदि ह्यतिस्निग्धाय स्नेहविरेचनं न दयं तहि किं दद्यादत आह-स्नेह क्लिष्टशरीराय रूक्षं विरेचनं दद्यात् ॥५४॥५५।।
गङ्गाधरः-विभ्रंश इत्यादि। यस्य विरेचनस्य विभ्रंशोऽसम्यगयोगो विषवदहितः, सम्यग्योगो यस्य यथामृतम्, कालेष्ववश्यं तत् पेयं तस्माद् यत्नात् सम्यग् विरेचनं प्रयोनयेदिति ॥५६॥ कर्मनित्या इति नित्यं व्यायामादिकर्मकराः। विरुद्राध्यशनाजीर्णान् दोषान् हरन्तीति विरुद्धा. शनादयो दोषरूपा न तेषां विकारं जनयन्तीत्यर्थः। विरुद्धाध्यशनादयश्च दोषजनकतया दोषशब्देनोध्यन्ते। नाव्याधाविति अविद्यमानसंशोधनैकसाध्यव्याधी न तु तान् विशोधयेदिति । भन्यवाप्युक्तोऽयमर्थ:-'भनीरितानां दोषाणामीरणं न प्रशस्यते। उपर्युपरि दृष्टानामश्मनामिव
ताइनम् ॥ ५३॥
- चक्रपाणिः-उक्त विधिमुपसंहरबाह-एवं ज्ञात्वेत्यादि । विरेच्येभ्य इति विरेचनाहभ्यः । विभ्रश इत्यादौ यस्येति संशोधनस्य। ननु यो वमेतच्छोधनं सत् किमनेनाचरितेनेत्याह
For Private and Personal Use Only