________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६१६ चरक-संहिता। दन्तीद्रवन्तीकल्पः
सुस्निग्धं करकोष्ठश्च लक्येदविरचितम् । तेनास्य स्नेहजः श्लेष्मासङ्गश्चैव प्रशाम्यति ॥५१ ॥ रूक्षबह्वनिलकर-कोष्ठव्यायामशीलिनाम् । दीप्तानीनाञ्च भैषज्यमविरेच्यैव जोयेति ॥ तेभ्यो वस्तिं पुरा दत्त्वा पश्चाद् दद्याद विरेचनम् । वस्तिप्रवर्तजान् दोषान् हरेत् सम्यग् विरेचनम् ॥ ५२ ॥ रूवाशनाः कम्मनित्या ये नरा दीप्तपावकाः । तेषां दोषाः क्षयं यान्ति कर्मणा चातपानिलैः ।। गङ्गाधरः-मुस्निग्धमित्यादि। मुस्निग्धमपि पीतविरेचनभेषजं क्रूरकोष्ठ. खादविरचितं लड्डयेत्। तेन लङ्घनेनास्य स्नेहजः श्लेष्मण आसरः प्रशाम्यति ॥५१॥
गङ्गाधर-रूक्षत्यादि । रूक्षस्य बहनिलस्य करकोष्ठस्य व्यायामशालिनश्च दीप्तानीनाश्च जनानां विरेचनभषज्यमविरेच्यव जीव्यति। तेभ्य इत्यादि। तेभ्यो रूक्षादिभ्यः पुरुषेभ्यः पुरा वस्तिं दत्त्वा पश्चाद विरेचनं दद्यात् । कस्मात् १ वस्तिप्रवर्तजान् दोषान् विरेचनमौषधं रूक्षादीनां सम्यग हरेत् ॥५२॥
गङ्गाधरः-रूक्षाशना इत्यादि। रूक्षाशनादीनां पुरुषाणां ये दोषाः चक्रपाणिः-सुनिग्धमित्यादावविरेचितमिति ईषद विरेचितम् । स्नेहज इति स्नेहप्रयोगजनितः श्लेष्मा। सङ्गो दोषसङ्गः। तेन लानेन दोषपाकादेव प्रबलमोपशयः दोषसकोपशमश्च क्रियत इत्यर्थः ॥५१॥
चक्रपाणि:-रूक्षादीनां विरेचनोपयोगे क्रमविशेषं सोपपत्तिकमाह-रूक्षेत्यादि। वस्तिं पुरा दत्त्वेत्या वस्तिशब्देन स्नेहवस्तिमिच्छन्ति। निरूहस्तु वातकोपकतया तथा निरूहानन्तरं विरेचनस्य निषिद्धत्वादिह नेष्यते, उक्त हि-निरूहदानाव पवनात्ययस्ततो नरो विरिक्तस्तु निरूहदानात् । विवर्जयेत् सप्तदिनान्यवश्यं शुद्धो निरूहेण' विरेचनन्तु इति । किन्तु वस्तिशब्देन निरूहश्च गृह्यते। निरूहस्य यद् वातकर्तत्वमुक्तं तदेकस्यैव स्नेहवस्तिरहितस्याभ्यासात् । सत्सगतस्तु वातहन्तृत्वम् -'वस्तिर्वातहराणाम्' इत्यनेनैवोक्तम। निरूहानन्तरं विरेचननिषेधस्त्वोत्सर्गिकः। तेन विशेषविधिना तस्यापवादो युज्यत एव। किंवा इह वस्त्यनन्तरं यद विरेच विधीयते, तश्च वस्तिदानादूद्ध " सप्ताहानन्तरमेव भविष्यतीति न कश्चिद विरोधः। प्रवर्तितमिति पूर्व निर्गत्योन्मुखीकृतम् ॥५२॥
पक्रपाणिः-रुक्षाशना इत्यादिना स्नेह्या अपि न व्याधिव्यतिरेकेण शोधनीया इत्याह ।
For Private and Personal Use Only