________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ मध्यावः] कल्पस्थानम् ।
३६०६ तीक्ष्णमध्यमृदूनाञ्च तेषां शृणुत लक्षणम् । सुखं क्षिण महावेगमसक्तं यत् प्रवर्तते। नातिग्लानिकरं पायो हृदये न च रुककरम् ॥ अन्नाशयमनुक्षिण्वत् कृत्स्नं दोषं निरस्यति । विरेचनं निरूहं वा तत् तीक्ष्णमिति निर्दिशेत् ॥ २७॥ जलाग्निकोटरस्पृष्टं देशकालगुणान्वितम् । ईषन्मात्राधिकैर्युक्तं तुल्यवीय्यः सुभावितम् ।
स्नेहस्वेदोपपन्नस्य तीक्ष्णतां याति भेषजम् ॥२८॥ मात्रं न तु कात्स्ये न द्रष्टव्यम्। एवमेतत्प्रकारेण द्रव्याणां विरेचनानां बहूनि सहस्राणि बहीः कोटीर्वा स्वबुद्धव भिषक परिकल्पयेदिति। किमर्थं तावनोक्तमित्यत आह-बहुद्न्येत्यादि। द्रव्याणां बहुविकल्पखाद योगस्य संख्या न विद्यते ॥२६॥
गङ्गाधरः-तीक्ष्णेत्यादि। तथापि तेषामसंख्येयानां तीक्ष्णमध्यमृदूना लक्षणं शृणु। सुखमित्यादि। यत् तु विरेचनद्रव्यं निरूहद्रव्यं वा क्षिप्र महावेगमसक्तमसहं सुखं यत् प्रवर्तते, नातिग्लानिकरं पायौ हृदये च न च रुककस्म्, अमाशयमामाशयमनुक्षिण्वत् कृत्स्नं दोषं निरस्यति, तद् विरेचनद्रव्यं निरूहद्रव्यं वा तीक्ष्णं निर्दिशेत् ॥२७॥ - गङ्गाधरः कथं तीक्ष्णं स्यादित्यत आह-जलेत्यादि । जलाद्यसंसृष्ट देशादिगुणान्वितं ईषन्मात्राधिकयुक्तं तुल्यवीय्यद्रव्येः सुभावितं सत् स्नेहस्वेदोपपन्नस्य जनस्य तीक्ष्णतां याति ॥२८॥ प्रदेश एकदेशः। अथ कस्मानिःशेषेण नैव योगाऽभिधीयन्ते इत्याह-बहुद्रव्येत्यादि । भासङ्घयत्वानिशेषाभिधानमिति भावः ॥२६॥
पाणि:-अथ वमनविरेचनानां तडपोधाताच्च निरुहाणां तीक्ष्णमध्यमृदुताया लक्षणं कारणचाह-तीक्ष्णेत्यादि। सुखमिति दुःखमकुर्वत्। असक्तमित्यप्रतिबद्धम् । नातिग्लानिकरं पायाविति विरेचनस्य निरुहस्य च, हृदये न च रुककरमिति तु वमनस्य लक्षणं ज्ञेयम्। अनुक्षिण्यदिति पीड़यत्। विरेचनञ्च उक्तं हि--उभयं हि शरीरदोषमलविरेचनात् विरेचनशब्दं लभते इति ॥ २७॥ . पाणि:-अलाग्नीत्यादिना तीक्ष्णरदे कारणमाह। देशकालगुणान्क्तिमिति अनुगुण:
For Private and Personal Use Only