________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०८
चरक-संहिता। दन्तीवन्तोकस्यः भूयश्चषां बलाधानं कायं खरसभावनैः। सुभावितं ह्यल्पमपि कार्य स्याद बहुकर्मकृत् ॥ खरसैस्तुल्यवीयैर्वा तस्माद् द्रव्याणि भावयेत् । अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् । कुर्यात् संयोगविश्लेष-कालसंस्कारयुक्तिभिः ॥ २५ ॥ प्रदेशमात्रमेतावद् द्रष्टव्यमिह षट्शतम्। स्वबुद्धौवं सहस्राणि कोटीर्वा परिकल्पयेत् ॥
बहुद्रव्यविकल्पवाद योगसंख्या न विद्यते ॥ २६ ॥ भवति, अतो हेतोविरुद्धवीर्याणामपि प्रधानेन सह प्रयोगः क्रियते। प्रधान ह्यामयं हन्ति, विरुद्धवीर्यन्तु तदिष्टवर्णादिकं करोतीति निश्चयः ॥ २४ ॥
गङ्गाधरः-भावना तु यदर्थं तदाह-भूयश्चेत्यादि। एषां प्रधानाप्रधानानां बलाधानं कार्यम्, तस्माद् भूयश्च स्वरसभावनेबलाधानं कार्य कर्त्तव्यम्। हि यस्मादल्पमपि द्रव्यं तुल्यवीयः स्वरसैः सुभावितं बलवत् सत् बहुकर्मकृत् स्यात् । तस्माद् द्रव्याणि भावयेदिति । कस्मादल्पद्रव्यं वीर्याधिक भावनाभिः स्यात् इत्यत उक्तम्-अल्पस्यापीत्यादि। द्रव्याणां संयोगविश्लेषकालसंस्कारयुक्तिभिर्द्रव्यान्तरमल्पस्यापि द्रव्यस्य महार्थत्वं कुर्यात्, प्रभूतस्यापि द्रव्यस्याल्पकर्मकत्वं कुर्यात् । एषामुदाहरणमुन्नेयम् ॥२५॥...
गङ्गाधरः-प्रदेशेत्यादि । इह विरेचनानां यत् षट्शतमुदाहृतं तदेतावत्पदेशमदनफलादेः विरुद्धवीर्याणां प्रयोगः तथा विरुद्धामयञ्च प्रति विरुद्धवीर्याणां प्रयोगो वमनविरेचनकर्तव्यामयविशेषयौगिक इत्यर्थः ॥ २४ ॥ ... चक्रपाणि:-अथ मदनफलादीनां वीर्योत्कर्षादिके विधिमाह-भूयश्चैषामित्यादि। तुल्यवीय्यवति तुल्यवीय्यैः स्वरसैः काथै । तुल्यातुल्यवीर्यसंयोगादिकार्यमाहू-आपस्यापीत्यादि। अनाल्पमात्रस्य समानवीय॑संयोगात् महार्थत्वं भवति, तथा विरुद्धवीयंसंयोमातू प्रभूतमात्रस्याल्पकर्मता कर्त्तव्या। इयञ्चाल्पकर्मकता प्रभूतभेषजस्य दीप्तिकारणकोष्ठव्याप्त्यादिप्रयोजनात् क्रियते, तेन न निष्प्रयोजना। विश्लेषादप्यल्पस्य महार्थत्वं विरुद्धवीर्यविश्लेषात् बोद्धव्यम्। समाधिकविश्लेषात् तु प्रभूतस्याल्पकर्मता ज्ञेया। एवं संस्कारादपि समानासमानगुणात् महार्थत्वमल्पकर्मता वा युक्ता। तलास्याल्पकर्मताऽनुदाहरणीया ॥ २५ ॥ . चक्रपाणिः-सम्प्रति उक्त प्रयोगे षट्शतवीजेनानुक्तप्रयोगकल्पनं दर्शय नाह-प्रदेणेत्यादि।
For Private and Personal Use Only