________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः] कल्पस्थानम् ।
३६०७ फलादीनां प्रधानानां गुणभूताः सुरादयः। ते हि तान्यनुवर्त्तन्ते मनुजेन्द्रमिवेतरे ॥ २२॥ विरुद्धवीर्य्यमप्यषां प्रधानानामबाधकम् । समानवीय्यन्त्वधिक क्रियासामान्यमिष्यते ॥ २३ ॥ इष्टवर्णरसस्पर्श-गन्धार्थ प्रति चामयम्।
अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम् ॥ २४ ॥ गङ्गाधरः-ननु कानि प्रधानानि कानि चाप्रधानानि इत्यत आहफलादीनामित्यादि । प्रधानानां मदनफलादीनां गुणभूता अप्रधानभूताः सुरादयः । कस्मात् ? ते हीत्यादि। हि यस्मात् ते सुरादयो मदनफलादीनि तान्यनु. वर्त्तन्ते, यथा मनुजेन्द्र राजानमितरे मनुजा अनुवर्तन्ते, इति ॥२२॥
गङ्गाधरः- नु वीर्यविरुद्धानि संसृज्यमानानि मानुवर्त्तन्ते इत्यत आहविरुद्धत्यादि। एषां प्रधानानां विरुद्धवीर्यमपि यदप्रधानं तत् संसृज्यमानं न प्रधानानां वाधकं भवति । समानवीय॑न्तु द्रव्यं प्रधानेन सह संसृज्य मानमधिकं क्रियासामान्यकरं भवतीति॥२३॥
गङ्गाधरः-कस्मात् तहि विरुद्धानां प्रयोगः क्रियत इत्यत आहइष्टेत्यादि। आमयं प्रति ययदिष्टवर्णादिका गुणास्तदर्थ द्रव्यं प्रयोक्तव्यं
यद्यपि मदनादिभिः सुरादिभिश्च मिलित्वव योगाः क्रियन्ते, तथापि फलादीनां प्राधान्यात् फलादीनां योगा एत इति व्यपदेशो भवति, न सुरादियोग इति । गुणभूता इत्यप्रधानभूताः। सुरादीनामप्राधान्य एव हेतुमाह-ते हि ताननुवर्तन्त इति, सुरादयो हि मदनादीन् वमनविरेचन. प्रकारका-नुगुणतया प्रतीघातेन चानुवर्तन्ते ॥ २१ ॥ २२ ॥
चक्रपाणिः-ननु ये तावदनुगुणा मदनादीनां ते गुणभूता भवन्तु, विपरीता ये दन्त्यादय उप्रतया तथा मांसरसादयो हृद्यतया वमनप्रतिकूला मदनादीनां ते कथं गुणभूता इत्याहविरुद्धवीर्यमप्येषां प्रधानानामबाधकमिति। विरुद्धवीय गुणमूतं न स्यात्, तत् मदनादीनां काय प्रतिहन्यात्। विरुद्धस्यापि च कार्याप्रतीघात अवश्यं बाधकत्वमेवेति भावः । विपरीतस्य कार्याबाधनरूपं महार्थत्वमभिधाय तुल्यवीर्यस्य कार्यमाह-अधिकमित्यादि। तुल्यवीय संयुक्त सति क्रियासामर्थ्यम् अधिकं भवतीत्यर्थः ॥ २३ ॥
चक्रपाणि:-अथ तुल्यवीर्य तावत् क्रियासामधिक्यकारक, तेन तत्संयोगोऽस्तु, विरुद्धवीर्यसंयोगास्तु किमर्थ क्रियन्त इत्याह-इष्टेत्यादि। इष्टवर्णत्वादिसम्पच्यर्थम्, मतो
For Private and Personal Use Only