________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०६
चरक-संहिता। दन्तीद्रवन्तीकल्पः एकः सौवोरकेऽथैक-योगः स्यात् तु तुषोदके। एका सुरा कम्पिल्लके चैकः पञ्च घृते स्मृताः॥ दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः। नानाविधानां योगानां भुक्तिदोषामयान् प्रति ॥ २०॥ त्रिशतं पञ्चपञ्चाशद योगानां वमने स्मृतम् । द्वे शते नवकाः पञ्च योगानान्तु विरेचने ॥ ऊर्धानुलोमभागानामित्युक्तानि शतानि षट् । प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च ॥ यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते। तत्संज्ञको हि संयोगो भवतीति विनिश्चयः ॥ २१॥
इत्यादि । व्याख्याताः प्रत्येकम् । अस्मिन् दन्तीद्रवन्तीकल्प त्रयः षोडशकाः अष्टचबारिंशद योगाः प्रोक्ताः॥२०॥
गङ्गाधरः–त्रिशतमित्यादि। अस्मिन् कल्पस्थाने षट्स्वध्यायेष्वादौ वमने योगानां पञ्चपञ्चाशदधिकं त्रिशतं स्मृतम्। शेषेष्वध्यायेषु षट्सु विरेचने योगानां द्वेशते पञ्चनवकाः पञ्चचत्वारिंशचोक्तम् । ऊर्धानुलोमभागानामिति। षट्शतानि दश पञ्च च मदनफलादीनि प्राधान्यतः समाश्रित्योक्तानि। ननु वमन विरेचनयोर्मदनफलादित्रितादिवदपराण्यपि फलिनीषक्तानि पश्चदश द्रव्याणि तेषां तत्र तत्र संयोगात् तत्कल्पः कथं नोक्त इत्यत आह-यद्धीत्यादि । हि यस्माद् यद् द्रव्यं येन प्रधानेन समुपसृज्यते तत्प्रधानसंज्ञक एव, तद. प्रधानानां संयोगो भवतीति विनिश्चयस्तस्मान्न तेषां कल्पः पृथगुक्त इति ॥२१॥
___ चक्रपाणिः-दधीत्यध्यायार्थसंग्रहो व्यक्त एव। भुक्तिदोषामयान् प्रति सक्तानां नानाविधानां योगानां वयः षोडशकाः प्रोक्ता इति योजना। भुक्तिरिच्छा ॥२०॥
चक्रपाणिः-सम्प्रति स्थानार्थसंग्रहमाह-विशतमित्यादिना। पञ्चपञ्चाशदिति पञ्चपञ्चाशदयोगाधिक विशतम् । प्राधान्यतः समाश्रित्येति प्राधान्येन मदनफलादीनि द्रवन्तीपर्यन्तानि पञ्चदशदव्याणि योगव्यपदेशतयाश्रित्य। अथात वमनादियोगेषु द्रव्यान्तराणां सुरादीनामपि विद्यमानत्वात् कथं मदनफलादीनामवयवत्वेनैवामी योगा व्यपदिश्यन्त इत्याह-यद्रीत्यादि।
For Private and Personal Use Only