SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः कल्पस्थानम् । ३६०५ নস স্থা । दध्यादिषु त्रयः पञ्च पियालादैास्त्रयो रसैः। स्नेहेषु च त्रयो लेहाः षट् चणे त्वेक एव च ॥ इक्षावेकस्तथा मुद्ग-मांसानाञ्च रसास्त्रयः। यवाग्बादौ त्रयश्चैक उक्त उत्कारिकाविधौ । एकश्च मोदके मद्य चैकस्तत्वाथतैलके। चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे ॥ द्रवन्तीमूलकषायेण दशकृतः सुभावितं दन्तीद्रवन्तीमूलस्य चूर्ण पुनः कम्पिल्लककषायेण दशकृतः मुभावितं ततः पुनः पिवेदित्येकः। इति त्रयश्चवारिंशद् योगाः। सप्तलाशङ्खि नीकल्पे पश्च योगा उक्ताः दन्तीद्रवन्तीकल्पो. ऽयमित्यादिना। तद् यथा-दन्तीद्रवन्तीसंपकात् क्षीराद यदुदियाद घृतम् । तयोरेव कल्कभागावजशृङ्गानगन्धयोः। क्षीरिणीनीलिनिकयोस्तथैव च करञ्जयोः। मसूरविदलायाश्च प्रत्यक्श्रेण्यास्तथैव च। द्विभागार्ड्स शकल्केन क्षीरेणालोड्य संपचेदिति। तद् यथा-दन्तीद्रवन्तीपकक्षीरोत्थं घृतं तयोर्दन्ती. द्रवन्तीमूलयोद्वौ भागो अजशृङ्गा नगन्धयोयोरेकभाग इत्येवं दन्तोद्रवन्त्योः द्विभागा शकल्केन चतुर्गुणेन क्षीरेण संपचेदित्येको घृते। तथा तथाविधक्षीरोत्थं घृतं दन्तीद्रवन्तीकल्कस्य द्वौ भागौ क्षोरिणीमूलनीलिनीमूलयोद्वयोरेकभागकल्कं दत्त्वा चतुर्गुणे क्षोरे पचेत् । इत्येकः। तथा करञ्जयोरिति, तथा. विधक्षीरोत्यं घृतं दन्तीद्रवन्तीकल्कस्य द्वौ भागो गोकरञ्जनाटाकरञ्जयोद्वेयोरेकभागं कल्कं दत्त्वा चतुगुणे क्षीरे पचेत् । इत्येकः। एवं तथाविधक्षीरोत्थं घृतं दन्तीद्रवन्तीकल्कस्य द्वो भागो, मसूरविदलाया एक भागं कल्कं दत्त्वा चतुगुणे क्षीरे पचेत् । इत्येकः । एवं तथाविधक्षीरोत्थं घृतं दन्तीद्रवन्तीकल्कस्य द्वौ भागो प्रत्यकश्रेण्या द्रवन्त्या मूलं पुनरेकभागं कल्कं दत्त्वा चतुगुणे क्षीरे पचेत् । इत्येकः । इति घृते पञ्च योगाः। इति दन्तोद्रवन्त्योरष्टचखारिंशद योगाः ॥१९॥ गङ्गाधरः–तदुपसंहारश्लोकाः । तत्र श्लोका इत्यादि। दध्यादिषु त्रयः सुरा प्रोक्ता, तथा कम्पिल्लकाषायेण इत्यादिना कम्पिल्लकयोग उक्तः। तथा तयोरपि दन्ती. द्रवन्स्योर्लोध्रस्य स्थाने प्रक्षेपात् सुरायोगः सौवीरकतुषोदकविधानेनैव कर्तव्य इति तृतीयः षोड्शकः ॥ १८॥ १९॥ ४५२ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy