________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६१०
चरक-संहिता। दिन्तीद्रवन्तीकल्पः किञ्चिदेभिर्गणीनं पूर्वोक्तात्रया तथा। स्निग्धखिन्नस्य वा सम्यक मध्यं भवति भेषजम् ॥ २६॥ मन्दवीय॑न्तु रूक्षस्य होनमात्रन्तु भेषजम् । अतुल्यवीय्यैः संयुक्तं मृदु स्यात् मन्दवेगवत् ॥ ३० ॥ अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम् । मध्यावरबलानान्तु प्रयोज्ये सिद्धिमिच्छता ॥३१॥ तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः । तीक्ष्णादीनि भिषक तेषु बलापेक्षी प्रयोजयेत् ॥३२॥
गङ्गाधरः-किञ्चिदित्यादि। पूर्वोक्तरेव एभिगुणैः किश्चित् हीनं तथा मात्रया किश्चित् हीनं सम्यक् स्निग्धविन्नस्य भेषजं मध्यं भवति ॥२९॥
गङ्गाधरः-मन्देत्यादि। रूक्षस्य जनस्य मन्दवीर्य मात्राहीनं भेषजम् अतुल्यवीय्यः संयुक्तं मन्दवेगवत् मृदु स्यात् ॥३०॥
गङ्गाधरः-अकृत्स्नदोषहरणात् ते मध्यमन्द भेषजे बलीयसामशुद्धी भवतः। मध्यावरबलानां ते मध्यमन्दभेपजे सिद्धिमिच्छता भिषजा प्रयोज्ये भवतः ॥३॥
गङ्गाधरः-व्याधेस्तीक्ष्णखादिकमाह-तीक्ष्ण इत्यादि। सर्वलक्षणो व्याधिः
देशकालप्राप्तस्योत्कृष्टगुणवत्त्वम् । स्नेहस्वेदोपपनस्येति सुस्निग्धस्विन्नस्य। किञ्चिदित्यादिना मध्यस्य वमनादेः कारणलक्षणे आह। एभिरित्यनेन क्षिप्रत्वादि जलाग्निकीटस्पृष्टस्वादि प्रत्यवमृश्यते। मन्दवीर्यमित्यादिना मृदूनां लक्षणं कारणञ्चाह । मन्दवेगवदिति लक्षणम्, शेष कारणम् ॥ २८-३०॥
चक्रपाणि:-तीक्ष्णादिशुद्धविषयावचारणार्थमाह-अकृत्स्नेत्यादि। ते मध्याल्पशुद्धी बलीयसा पुरुषाणां कृत्स्नदोषं यस्मान निर्हरतः तस्मादशुद्धी। अकृत्स्नदोषहरणादितिहेतुवर्णनेन यदा बलीयसोऽल्पदोषतया कृत्स्नदोषहरणकारिके मध्याल्पशुद्धी भवतः, तदा सम्यकशुद्धी एव ते सूचर्यात। मध्येत्यादि मध्यबले मध्या अवरबले तु मृद्वी शुद्धिः प्रयोज्येति वाक्यार्थः। अत्र प्रयोज्यभाषया असम्यकशुद्धी अपि बलापेक्षया कर्तव्ये मध्यावरौ प्रति तयोः सम्यकशुद्धिकर्तव्यत्वं भवतीति दर्शयति ॥३१॥
चक्रपाणि:-व्याधितीक्ष्णत्वादिविभागेन विशुद्धौ तीक्ष्णत्वादिविधानमाह। तीक्ष्णो मध्य इत्यादि सर्वमध्याल्पलक्षण इति यथासंख्यं तीक्ष्णादिव्याधिलक्षणम्। सवलक्षणस्तीक्ष्णः
For Private and Personal Use Only