________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६८
चरक-संहिता। दन्तोद्रवन्तीकल्पः तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च । विलापयन्ति दोषौ द्वौ मारुतं कोपयन्ति च ॥३॥ दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः। पियालकोलबदर-पोलुसीधुभिरेव च ॥ पिबद्ध गुल्मोदरी दोरैरभिखिन्नश्च यो नरः। गोमृगाजरसैः पाण्डु-क्रिमिकुष्ठो भगन्दरी ॥४॥ तयोः कल्के कषाये च दशमूलरसायुते ।
विसर्पालजीकक्षासु दाहे च विपचेद घृतम् ॥ कृखातपे शोषयेत् । किमर्थमित्यत आह-एषां मूलानां विकाशिताग्निसूय॑हता स्यादित्यर्थ तथा कुर्याच ॥२॥ __गङ्गाधरः-गुणानाह-तीक्ष्णेत्यादि। दोषौ द्वो पित्तकफो। मारुतं यत् कोपयन्ति तद् द्रव्यान्तरयोगात् सर्च रोगान् घ्नन्ति ॥३॥ . गङ्गाधरः-योगानाह-दधीत्यादि। तयोर्दन्तीद्रवन्त्योरन्यतरस्या मूल. पिण्डमक्षसमं दध्यादित्रयान्यतमेन गुल्मादिषु पिवेदिति त्रयः। पियालादीनामन्यतमेन . काथेन सीधुना वा पिबेदिति पञ्चेत्यष्टौ। गोमृगेत्यादि। पाण्डायामयी गोरसमृगमांसरसच्छागमांसरसानामन्यतमेन पिबेत् । गोरसः पयः। इति त्रयः॥४॥
गङ्गाधरः-तयोरित्यादि। तयोर्दन्तीद्रवन्त्योरन्यतरस्या मूलस्य कल्के घृतात् पादिके, कषाये च तयोघृताच द्विगुणे, दशमूलरसे च द्विगुणे घृतं विकाशिवालक्षणं गुणं स्वेदोपशोषणाभ्यामग्न्यौं हतः। तेन नातिदोषाणि दन्तीद्रवन्तीमूलानि स्युरिति भावः ॥ १॥२॥
चक्रपाणिः-तोगोष्मानीत्यादिना तेषां गुणकथनम्। दोषौ द्वाविति पित्तश्लेष्माणौ ॥ ३ ॥
चक्रपाणिः-दधीत्यादिना सप्त भव्यैः सप्त प्रयोगानाह। शीधुशब्दः पियालादिभिश्चतुर्भि पृषक सम्बध्यते। अभिखिन्न इत्याक्रान्तः । गोमृगाजरसैरित्यत्रापि पिण्डमक्षसमं तयोरित्यनुवर्तते । असापि गवादिरसैस्त्रिभिस्त्रयः प्रयोगा भवन्ति ॥ ४ ॥ चक्रपाणिः-तयोरित्यादिना लीन् स्नेहयोगानाह। अनयोः कल्ककषाये च दशमूलरस
For Private and Personal Use Only