________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः] कल्पस्थानम्।
३५९४ तैलं मेहे च गुल्मे च सोदावर्त्तकफानिले। चतुःस्नेहं शकृच्छुक्र-वातसङ्गानिलार्तिषु ॥ ५॥ रसे दन्त्यजशृङ्गयोश्च गुड़नौद्रघृतान्वितः। लेहः सिद्धो विरेकार्थे देयः सन्तापदाहनुत् ® । पित्तज्वरे वाततर्षे स्यात् स एवाजगन्धया ॥ मूलं दन्तीद्रवन्त्योश्च पचेदामलकीरसे। त्रीस्तु तस्य कषायस्य भागो द्वौ फाणितस्य च।
तप्ते सर्पिषि तैले वा भर्जयेत् तत्र चावपेत् ॥ विपचेत्, विसर्पादौ पिबेत् । एवं प्रकारेण तैलं मेहादिषु पचेत् । तद् यथादन्तीद्रवन्त्योर्मूलस्य कल्कः पादिकः कषायो द्विगुणो दशमूलकषायो द्विगुणः, तेन तैलं पत्त्या मात्रया तत् तैलं पिबेत्। शकुदाधत्तिषु चतुःस्नेहं पत्त्वानेन प्रकारेण पिबेत् । तद् यथा-घृतादिचतुःस्नेहं समभागेन प्रस्थं प्रत्येकमेककशरावम, दन्तीद्रवन्त्योरन्यतरस्या मूलस्य कल्कः पादिकः, तत्कषायश्च द्विगुणः, दशमूलकषायाद द्विगुणः । इति स्नेहे त्रय इति चतुद्देश ॥५॥
गङ्गाधरः-अथ लेहानाह-रस इत्यादि। दन्त्यजशृयोर्दन्त्या मूलस्य मेषशृङ्गया मूलस्य मिलितयोः कषायं गुड़घृतयुक्तं पक्त्वा तन्तुलीभूतमवतार्य शीते तत्र क्षौद्रं दत्त्वा लेहः सिद्ध इत्येकः। पित्तेत्यादि। पित्तज्वरादौ स एव लेहोऽजगन्धया कार्यः। तद् यथा-अजगन्धा यमानी तस्या मूलं दन्तीमूलच जलेऽष्टगुणे पक्त्वा रसे पादशेषे कृते तत्र गुई पादिकंघृतश्च दत्त्वा पचेत्, लहीभूतमवताये शीते मधु दत्त्वा लेहं सिद्धं लहयेदित्यपरो लेहः । चतुरोऽपरलेहानाह मूलमित्यादि। आमलकीरसेऽष्टगुण दन्तीद्रवन्त्योमूलं पचेत् । पादशिष्टस्य तस्य कषायस्य त्रीन् भागान् फाणितस्य च द्वौ भागो मेलयिता तप्ते घृते तले वा तुरुयभागेन घृतं पचेत् विसादिषु। तैलं पूर्ववन्मेहादिषु। चतुःस्नेहस्तु शकृच्छुक वातसङ्गादिषु ॥५॥
चक्रपाणिः-रस इत्यादिना एको लेहः। वाततर्ष इत्यादिना द्वितीयः। स एवाजगन्धयेत्यनेन पूर्वोक्तो लेह एवाजङ्गीस्थानेऽजगन्धादानं विशिष्टं ख्यापयति । मूलं वन्तीत्यादिना
• दाहसन्तापमेहनुदिति पाठान्तरम् ।
For Private and Personal Use Only