SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशोऽध्यायः। अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥ १ ॥ दन्त्युडुम्बरपर्णी च निकुम्भोऽथ मुकूलकः । द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया ॥ तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी। प्रत्यकश्रेणो सुतश्रेणी दन्ती रण्डा च कीर्तिता ॥ तयोर्मलानि संगृह्य बहलानि स्थिराणि च । दन्तिदन्तप्रकाणि श्यावताम्राणि बुद्धिमान् ॥ पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे। शोषयेदातपेऽग्न्यिो -8-हता होषां विकाशिता ॥२॥ गङ्गाधरः-अथोद्देशक्रमाद् दन्तीद्रवन्तीकल्पमाह-अथात इत्यादि। षड्: विरेचनशताश्रितीये यदुक्तम्-अष्टचवारिंशद दन्तीद्रवन्त्योरिति, तदष्टचखारिंशदयोगं दन्तीद्रवन्तीकल्पं व्याख्यास्यामः। शेषं पूववव्याख्येयमिति ॥१॥ गङ्गाधरः-तयोः पायमाह-दन्तीत्यादि। दन्ती चोडम्बरपर्णी च निकुम्भश्च मुकूलकश्चेति पर्यायैदेन्तीनामौषधिरुच्यते। द्रवन्तीनाम चौषधिः "पुनद्रवन्ती च चित्रा च न्यग्रोधी च मूषिका च मूषिकपर्णी चोपचित्रा च शम्बरी च प्रत्यकश्रेणी च सुतश्रेणी च दन्ती च रण्डा चेति पर्यायैरुच्यते। तयोरित्यादि। दन्तिदन्तप्रकाराणि हस्तिदन्तप्रकाराणि मूलानीत्यतो नागदन्तीत्युच्यते, बहलानि धनानि, तानि मूलानि पिप्पलीकल्केन मधुना मिश्रितेन लिप्सानि कुशरावेष्टा मृत्तिकाभिः लिप्त्वा बहिना स्वेदयेत् । स्विन्नानि जलेन धौतानि चक्रपाणि:-पारिशेष्यात् दन्तीद्रवन्तीकल्पोऽभिधीयते। दन्तीद्रवन्त्योरपि तयोः पर्यायामाह। स्थिराणीति सारभूतानि । बहलानीति घनत्वकानि। हस्तिदन्तप्रकाराणीति अत्यन्तपूर्बोपचिताति। श्यावताम्राणीति यथाक्रमेण दन्स्याः श्यावानि द्रवन्त्यास्ताम्राणि । मृत्कुशान्तरे इति पिप्पलीमधुककाभ्यो परिलिप्य कुशैः परिवेष्टय ततो मृदावलिमानि स्वेदयेत् । भग्निस्वेदातपशोषणफलमाह-अग्न्यौं हतो हेयषां विकाशितामिति दन्तीद्रवन्तीमूलानां * भान्यकी हतो हरषां विकाशितामिति चक्रसम्मतः पाठः। ४५१ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy