________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६६
चरक-संहिता। [सप्तलाशचिनीकरका सप्तलाशङ्खिनीकल्पे त्रिंशदुक्ता नवाधिकाः । योगाः सिद्धाः समस्तानामेकशोऽपि च ते हिताः॥६॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने सप्तला
शशिनीकल्पो नाम एकादशोऽध्यायः ॥११॥
त्यादि। कषायादौ दश योगाः । मैरेयादौ षट् । तैले षट् । सर्पिषि अष्टौ। मदा पञ्च । लेहास्त्रयः। कम्पिल्लके त्वेकः। इति नवाधिकास्त्रिंशद योगा उक्ताः ॥९॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमे तदेकादशाध्यायेऽत्र तु। सप्तलाशङ्खिनीकल्पे वैद्यगङ्गाधरेण तु । कृते जल्पकल्पतरो कल्पस्थाने तु सप्तमे । स्कन्धे
एकादशाध्याय-जल्पशाखा समापिता ॥११॥ भक तथा दन्तीद्ववन्त्योश्च कषायेणाजगन्धायाः। गौड़ः कार्योऽजशृङ्गया वा रसैः सुखविरेचनः इयनेनोक्तस्य गौड़ारिष्टस्य दन्तीद्रवन्तीकल्पोक्तस्य विधानमतिदिशति ॥६-८॥
पापाणि:-कषाया इत्यादिसंग्रहो व्याकृतः ॥९॥
इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितावामायुर्वेददीपिकायां घरकतात्पर्यटोकायां कल्पस्थानव्याख्यायां सप्तलाशङ्खनीकल्पो नाम
एकादशोऽध्यायः॥ ११॥
For Private and Personal Use Only