________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातः सतलाशङ्खिनीकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ सप्तला चर्मसाह्वा च बहुफेनरसा च सा। शङ्खिनी तिक्तला चैव यवतिक्ताक्षिपीड़कः ॥ तै गुल्मगरहृद्रोग-कण्ठनीहोदरादिषु। विकाशिरूक्षतीक्ष्णत्वाद् योज्ये श्लेष्माधिकेषु च ॥२॥ नातिशुष्कं फलं ग्राह्य शविन्या निस्तुषीकृतम् । सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत् ॥३॥ अचमानं तयोः पिण्डं प्रसन्नालवणायुतम् । हृद्रोगे वातकफजे गुल्मे चैतत् प्रयोजयेत् ॥ पियालपीलुकर्कन्धू-*-कोषाम्राम्लकदाडिमः। द्राक्षापनसखज्जर-बदराम्लपरूषकैः ॥ गङ्गाधरः-अदिशक्रमात सप्तलाशङ्खनीकल्पमाह-अथात इत्यादि । षड़विरेचनशताश्रितीये यदुक्तम्-एकोनचत्वारिंशत् सप्तलाशविन्योोगाः इति, तत् सप्तलाशङ्खिनीकल्पमेकोनचत्वारिंशद्योगं व्याख्यास्यामः। शेषं पूव्वद व्याख्येयमिति ॥१॥
गङ्गाधरः-सप्तलेत्यादि। सप्तला चम्मसाहा बहुफेनरसा चेति पय्यायरुच्यते। शङ्खिनी तिक्तला यवतिक्ता चाक्षिपीड़क इति च पय्योयरुच्यते। ते इत्यादिना तयोगुणकर्मणी आह। ते सप्तलाशविन्यौ। नातीत्यादि। शशिन्या नातिशुष्कं फलं ग्राह्य फलिनीपूतखात्, सप्तलायाच मूलानि मूलिनीषक्तखात्। गृहोला भाजने क्षिपेत् स्थापयेत् ॥२॥३॥ ___ गङ्गाधरः-तयोोगानाह-अक्षेत्यादि। तयोः सप्तलाशकिन्योरक्षमा पिण्डं प्रसन्नालवणाभ्यां युतं दशानां पियालादीनामन्यतमकषायेण हृद्रोगादौ
चक्रपाणिः-पूर्वाध्यायोक्तसम्बन्धादेव सप्तलाशङ्खिनीकल्पोऽभिधीयते । इह चाध्याये ये योगा अभिधीयन्ते ते सप्तलया वा शङ्खिन्या वा उभाभ्यां वा सम्पायन्ते श्यामानिवृदयोगवत् ॥ १॥ चक्रपाणि:-ते गुल्मेत्यादि । ते सप्तलाशविन्यौ ॥२॥३॥ चक्रपाणि:-अक्षमानमित्यादिना कल्कस्य प्रसबालवणयुक्तस्य पियालादिकषायेषु षोड़श योगा कोलानातकेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only