________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्याय
कल्पस्थानम् । पाययेत् तु सुधानोरं यूपैमांसासैर्वृतः । भावितं शुष्कमत्स्यं वा मांसं वा भक्षयनरम् ॥ ११ ॥ क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पिबेत् । सुरां वा कारयेत् क्षारे सुतं ॐ वा पूर्ववत् पिवेत् ॥ १२॥
___ तत्र श्लोको। सौवीरकादिभिः सप्त सर्पिमीसरसेन वा। पानकं प्रेयलेहो च योगा यूषादिभिस्त्रयः॥ गङ्गाधरः-यूषादिभिस्त्रीनाह-पाययेदित्यादि। कोष्ठाद्यपेक्षया सुधाक्षीरं यूपः पाययेदथवा मांसरसः पाययेदथवा घृतैः पाययेदिति त्रयो योगाः । शुष्कमत्स्यमांसाभ्यां द्वावाह-भावितमित्यादि। सुधाक्षीरेण भावितं शुष्कमत्स्यं भक्षयेदथवा सुधाक्षीरेण भावितं शुष्कं मांसं भक्षयेदिति द्वौ योगो॥१॥
गङ्गाधरः-अथ सपिषी द्वे चाह-क्षीरेणेत्यादि। चतुरङ्गुलवत् सर्पिः पिबेत् । तद् यथा। सुधाक्षीरेण पक गोक्षीरं मथिखोद्धतं घृतं तत् सुधाक्षीरं पादिकं गर्भे दत्त्वामलकीरसे चतुर्गुणे पचेदित्येकं सर्पिः । अपरश्च । अपामार्ग: तण्डुलीयोक्तः श्यामादिभिः कल्कैः पादिकैदशमूलकपायेण कुलस्थकषायेण यवस्य कषायेण मिलिखा चतुगुणैः कषायैः सुधाक्षीरपक्कगव्यक्षीरोत्थं सर्पिः पचेदित्यपरं सर्पिरिति द्वे सर्पिषी। सुरामाह-सुरां वेत्यादि। क्षीरे इति सुधाक्षीरे सुरामण्डं प्रक्षिप्य भाजने स्थापयेत्, काले जातमासुतं पूर्ववत् पिबे. दित्येको योगः। इति महावृक्षस्य विंशतियोगाः समुदाहृता इति ॥१२॥
गङ्गाधरः-तदुपसंहरति-तत्र श्लोकाविति। सौवीरकादिभिः सप्त योगा। चक्रपाणिः-पाययेदित्यादिना पृथक् यूपमासरसस्तै-गवयमाह। भावितानित्यादिना शुष्कमरस्यमांसयोगावाह। श्रीरेणेत्यादिना एकम् । घृतं वेत्यादिना एकं वक्ष्यति । आमलकैअातुरनुलवदिति वचनात् आमलकरसयुक्तं यचतुरङ्गलं चतुरङ्ग लकल्पे 'चतुरङ्गलम्' इत्यादिनोक्तं तस्य विधानमतिदिशति। सुरां वा कारयेत् क्षीर इति स्नुक्क्षीरभावितम् इत्यादिविधिभिः सुरी कुर्यात्। घृतं वा पूर्ववत् पधेदित्यत्र पूर्ववदित्यनेन तिल्लककल्पेऽतिदेशविहितघृतद्वयं पूर्ववत् लोकल्केन इत्यादिग्रन्थविहितम्। तद्विधिरेव प्रत्यासन्नत्वादतिदिश्यते ॥ ११ ॥१२॥ * घृतं वा पूर्ववत् पचेदिति चक्रवतः पाठः ।
४५०
For Private and Personal Use Only