________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। त्रिवृतारग्बधो दन्ती सतला शडिनी समा। निशि स्थितं गवां मूत्रे शोषयेदातपे भिषक् ॥ सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुनः। सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम् ॥ गन्धमाल्यं समाघ्राय प्रावृत्य पटमेव च। सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः ॥ ६ ॥ श्यामानिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः। लेहं कृत्वा विरेकार्थ लेहयेन्मात्रया नरम् ॥ १० ॥
गङ्गाधरः-त्रितेत्यादि। त्रितादिपञ्चकं समभागं गवां मूत्रे निशि स्थितं प्रातरातपे शोषयेदित्येवं सप्ताहं भावयिखा पुनः स्नुहीक्षीरेणापर समाहमेवंप्रकारेण निशि स्नुक्क्षीरे स्थितं प्रातरात शोषयेदिति सप्ताह भावितं पुनः सप्ताहं तेनापि स्नुहीक्षीरभावितचूर्णेन भावित गन्धपुष्पपद्मादिमाल्यं शरीरे पटं वस्त्रमावृत्य समाधायाशु सुख मृदुकोष्ठा नराधिपा विरिच्यन्ते, न तु क्रूरकोष्ठाः। इति प्रेये त्वेको योगः॥९॥
गङ्गाधरः-लेहे चाह-श्यामेत्यादि। श्यामारुणमूलनिवृते द्वे, तयोः कषायेण स्नुकक्षीरं घृतं फाणितश्च यथाहं मेलयिता पक्त्वा लेह कुता लेहयेत् । इति लेहे त्वेकः ॥१०॥
पक्रपाणि:--निवृदित्यादिना घ्र ययोगमाह। गोमूत्रे रजनी कृत्वेति रजनी व्याप्य गोसूझे स्थापयित्वा। पटमेवेति यथोक्तविधिभावितं पठमावृत्येत्यर्थः ॥९॥
चक्रपाणिः-३यामेत्यादिना लेहयोगमाह । मात्रयेत्यनपायिमावया ॥ १० ॥
For Private and Personal Use Only