________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः] कल्पस्थानम् ।
३५८७ ततः कोलसमां मात्रां पिबेत् सौवीरकेण ताम्। तुषोदकेण कोलानां रसेनामलकस्य च। सुरया दधिमण्डेन मातुलुङ्गरसेन वा ॥६॥ सातलाकाञ्चनक्षीरो-श्यामादन्तीफलत्रिकम् छ । यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत् । कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा॥७॥ वाषणं त्रिफलां दन्ती चित्रकं त्रिवृतां तथा।
स्नुकतीरभावितां सम्यक् विदध्याद गुड़पानके ॥८॥ ततः कण्टकार्याः कषायेण समापनमगारेण शोषयेदिति शुद्धिः । तत इत्यादि। ततः कोलसमां तस्य शोधितस्य सुधाक्षीरस्य मात्रां कोष्ठबलाद्यपेक्षयाऽल्पमात्राश्च सौवीरेण पिबेदथवा तुषोदकेनाथवा कोलानां रसेनाथवामलकस्य रसेनाथवा मुरयाथवा दधिमण्डेनाथवा मातुलङ्गरसेन सप्तमेन पिबेत् । इति सप्त योगाः॥६॥
गङ्गाधरः-सातलामित्यादि। सातलादीनां यथालाभमेकं सुधाक्षीरेण सप्ताहं भावयेत्। तच्च ऐस्य कोलमात्रां कोष्ठाद्यपेक्षयाल्पमात्रां वा घृतेन पिबेदथवा मांसरसेन पिवेत् । इति द्वौ योगो॥७॥
गङ्गाधरः-ऋषणमित्यादि। वाषणादीनि चूर्णयिता स्नुकक्षीरेण भावयेत्। भावितं तचूर्ण गुड़पानके गुड़ोदके योजयेदिति । पानके त्वेकः॥८॥ पातस्थं तत् सुधाक्षीरं विल्वादीनामन्यतमस्य कषायेण समानं शोषणेन कठिनं कुर्यात्, स्ता कोलमानगुटिका, ततः सौवीरकादीनामन्यतमेन पातव्या। एवं सौवीरकादिभेदात् सप्त योगा भवन्ति। तथात्र विल्वादिकषायस्य भेदेन भेदो विवक्षितः ॥ ६॥
चक्रपाणिः-सातलामित्यादिना वातसाधनघृतमांसरसभेदात् योगद्वयमाह। सातला चर्मशा, श्यामादिग्रहणेनैव सातलायामपि लब्धायां पृथक सातलाभिधानमेकयापि सातलया कृतसुधा. योगस्य प्राधान्यख्यापनार्थम् ॥ ७॥
चक्रपाणिः-षणमित्यादिना पानयोगमाह । गुड़पानकमिति गुडसं मृतपानकम् ॥८॥ • श्यामादीनि कटुतिकम् इति पाठान्तरम् ।
For Private and Personal Use Only