________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८६
चरक-संहिता ।
द्विविधः स मतो यश्च बहुभिश्चैव कण्टकः ॥ सुतीक्ष्णैः कण्टकैरल्पैः प्रवशे बहुकण्टकः । सनाम्ना तु गुड़ा नन्दी सुधा निस्त्रिंशकः ॥ ४ ॥ तां विपाट्योद्धरेत् चीरं शस्त्रेण मतिमान् भिषक् । द्विवर्षा वा त्रिवर्षा वा शिशिरान्ते विशेषतः ॥ ५ ॥ विल्वादीनां वृहत्याश्च कण्टकाय्र्थ्यास्तथैकशः । कषायेण समापन्नं कृत्वाङ्गारेषु शोषयेत् ॥
[ सुधाकल्पः
चारितः सद्यो महान्तं दोषसञ्चयं हरति । तस्य प्रकारमाह - द्विविध इत्यादि । स महावृक्षो विधो मतः । यश्च बहुभिः कण्टकैर्युक्तः स एकः । यश्च सुतीक्ष्णैः अल्पैः कण्टकर्युक्तः सोऽपरः, तत्र बहुकण्टकः प्रवरः । तस्य पर्यायमाह-स इत्यादि । नाम्ना स महावृक्षो गुड़ा च नन्दी च सुधा च निस्त्रिंशपत्रकः खड्गपत्रः । एवं स्तुही महावृक्ष' इत्यादि || ३ | ४ ||
गङ्गाधरः- तां विपाटेत्यादि । तां द्विवष त्रिवषीं वा सुधां विपाठ्य शस्त्रेण क्षीरं समुद्धरेत् । विशेषतः शिशिरान्ते वसन्ते ॥ ५ ॥
गङ्गाधरः - तस्या योगानाह - विल्वादीनामित्यादि । विल्वादिपञ्चमूलानां कषायेण समापन समागतं कृत्वाङ्गाराग्निना शोषयेत्, ततो बृहत्याः कषायेण
For Private and Personal Use Only
एव वर्त्तते तत् प्रतिपादितमेव प्रमेहचिकित्सिते । दोषवृद्धया विभ्रान्तं चेतो यस्मिन् तस्मिन् विभ्रान्तचेतसि उन्मादे । सप्राणमिति बलवन्तम ॥ ३ ॥
चक्रपाणिः - प्रवरो बहुकण्टक इति अनतितीक्ष्णतयाल्पकण्टकः महावृक्षतः श्रेष्ठ इत्यर्थः । ताविति स्वल्प कष्ट कब हुकण्टकौ महावृक्षौ । यद्यपि मदनकल्पे 'शरदि त्वक्कन्दक्षीराणि' इत्युक्तं तथापि सुधानामत्र शिशिरान्ते क्षीरमहणमपवादरूपं ज्ञेयम् । शिशिरस्य शेषा दिवसाः शिशिरान्ताः ॥ ४ ॥५॥
चक्रपाणि:- विश्वादीनामिति विल्वादिपर मूलस्य । भङ्गारेषु शोषयेदिति भङ्गारो परिस्थित