________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽध्यायः। अथातः सुधाकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता। सखातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमात् ॥ तस्मान्नैषा मृदो कोष्ठे प्रयोक्तव्या कदाचन । न दोषनिचये चाल्पे सति मार्गपरिक्रमे ॥२॥ पाण्डुरोगोदरे गुल्मे कुष्ठे दूषोविषार्दिते। श्वयथौ मधुमेहे च दोर्षावभ्रान्तचेतसि ॥ रोगैरेवंविधै स्तं ज्ञात्वा सप्राणमातुरम् । प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः॥ सयो हरति दोषाणां महान्ताः सञ्चयम् ॥३॥ गाधरः-अथोद्देशक्रमात सुधाकल्पमाह-अथात इत्यादि। षविरेचनशवाश्रितीये यदुक्तम्-महावृक्षो भवति विंशतियोगयुक्तः इति, तं विंशतियोगं सुधाकल्पं व्याख्यास्यामः। शेषं पूर्ववत् ॥१॥
गङ्गाधरः--विरेचनानामित्यादि। तस्मात् तीक्ष्णतमखादेषा मृदो कोष्ठे कदाचन न प्रयोक्तव्या। दोषनिचये दोषसञ्चयेऽल्पे सति मार्ग परिवत्त्ये क्रमणे चन प्रयोक्तव्या ॥२॥
गङ्गाधरः-प्रयोगाई माह-पाण्डित्यादि। सपाणं सबलं शाखा सम्यगवचक्रपाणिः-षोडशसंख्याभिधायकतिल्वककल्पानन्तरं यथाक्रममधिकसंख्याप्रयोगाभिधानक्रमात् विंशतियोगाभिधायकसुधाकल्पाऽभिधीयते। इतश्चानन्तरमतिरिक्तम ख्याभिधानक्रमेणव नवत्रिंशत्प्रयोगाभिधायकसुधाकल्पोऽभिधाम्यते । विरेश्नानामिति विरेचनद्रव्याणाम् । कष्टविक्रमादिति खसाध्यविभ्रमजनिका। तस्मादिति अतितीक्ष्णत्वात् कष्टविनमत्वाच। सति मार्गपरिक्रम इति उपक्रममागान्तरे सति न सुधा प्रयोकव्या, तेन गत्यन्तरासम्भव एव सुधा प्रयोक्तव्या इत्यर्थः ॥ १२॥
चक्रपाणिः-पाण्डुरोगेल्यादौ मधुशब्देन प्रमेहा एवोच्यन्ते, विशिष्टस्तु वातिकमधुमेहश्चासाध्य एष। तेन तं प्रति विरेचनोपदेशोऽनर्थक एव स्यात्। मधुमेहरब्दश्च यथा प्रमेहमान
For Private and Personal Use Only