________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः। अथालस्तित्वककल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ तिल्वकस्तु मतो लोधो वृहत्पत्रस्तिरोण्टकः । तस्य मूलत्वचं शुष्कामन्तवैल्कलवर्जिताम् ॥ चूर्णयेत् तु विधा कृत्वा द्वौ भागौ क्वाथयेद् छ भिषक। लोधस्यैव कषायेण तृतीयं तेन भावयेत् ॥ भागन्तु दशमूलस्य कषाये भावितं पुनः। शुष्कं चूर्ण ततः कृत्वा स्निग्धखिन्ने प्रयोजयेत् ॥ दधितक्रसुरामण्ड-मार्बदरसीधुना। रसेनामलकानां वा तत: पाणितलं पिबेत् ॥२॥
गङ्गाधरः-अथोद्दिष्टक्रमात तिल्वककल्पमाह-अथात इत्यादि। षड़. विरेचनशताश्रितीये-लोध्र विधौ षोड़शयोगयुक्तमिति यदुक्तम्, तल्लोध्रकल्प व्याख्यास्याम इति । शेषं पूव्वे वद् ॥१॥ __ गङ्गाधरः-तिल्वक इत्यादि। तिल्वको लोध्रो वृहत्पत्रस्तिरीण्टक इति पर्यायाः। तस्य मूलस्य खचमन्तवेल्कलबज्जेितां त्रिधा कृखा तदेकभागं चूर्णयेत्, शेषो द्वौ भागो काथयेत् । तेन लोध्रस्य कषायेण तृतीयं तच्चर्ण भाग्येत, पुनर्देशमूलकषायण लोध्रकषायतुल्येन तच्चूर्ण भावयेत्। ततः शुष्क चूर्ण कुखा स्निग्धस्विन्ने नरे पाणितलं कर्ष दध्ना प्रयोजयेत् तक्रेण वा मुरायण्डमात्रेण वा बदरसीधुना वामलकीरसेन वेति पञ्च योगाः॥२॥
चक्रपाणि:-चतुरङ्गुलवत् सिल्वकस्यानपायित्वाचतुरकुलकल्पानन्तरं तिल्वाकल्पोऽभिधीयते। अन्तर्वल्कलवाजतामिति तिल्वकस्यान्तर्वल्कलं कठिनं भवति, तदर्थ तवर्जनम् । इच्योतदिति वचनेन षड्गुणद्रषेणैकविंशतिधारान् घावयेदिति ज्ञेयम्। मदनफले एवम्भूतस्यैव प्रावणस्य इष्टत्वात्। भावनाविधिश्च निरन्तरं कृत एव। दधितक्रेत्यादिना विवंदित्यन्तेन पञ्च योगाः ॥ १॥२॥ • न्योपदिति चासम्मतः पाठः ।
४४९
For Private and Personal Use Only