________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८२
चरक-संहिता। [तिस्वकाल्पः सुरां लोधकषायेण जातां पक्षस्थितां पिबेत् ॥ मेषशृङ्गाभयाकृष्णा-चित्रकैः सलिलः शृतैः। तत्तुलां सुनुयात् तच्च जातं सौवोरकं यदा। भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् तथा॥३॥ दन्तीचित्रकयोद्रोणे सलिलस्यादकं पृथक् । समुत्क्वाथ्य गुड़स्यैकां तुला लोध्रस्य वालिम् ।
आवापयेत् परं पक्षात् मद्यपानं विरेचनम् ॥४॥ तिल्वकस्य कषायेण दशकृत्वः सुभाविताम् ।। मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत् ॥५॥ चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य एव च। त्रिफलायाः कषायेण ससपिमधुफाणितः।
लोधचूर्णयुतः सिद्धो लेहः श्रेष्ठं विरेचनम् ॥ गङ्गाधरः-सुरामित्यादि। लोध्रकषायेण समा सुरां पक्षस्थितां प्रयोजयेदित्येका मुरा। सौवीरेण चैकमाह-मेषशृङ्गयादीनामष्टगुणे जले पकानां पादशेषस्य तस्य काथस्य तुलां सुनुयात् शुची भाण्डे स्थापयेत्, तत् काले आसुतं सौवीरकं यदा भवति, तदा तस्याञ्जलिना लोध्रस्य मूलखकल्क मात्रया पिवेदित्येकः सौवीरके ॥३॥
गङ्गाधरः-अरिष्टे चैकमाह-दन्तीत्यादि। सलिलस्य होणे त्याद पत्त्वा तथा सलिलद्रोणे चित्रकाढकं पक्त्वा पादशेषे गुड़तुला लोध्रमूलखककुड़वं तत्रावपेत् पक्ष स्थापयेत् । पक्षात् परं तन्मद्यपानं विरेचनम् । इत्येक एषोऽरिष्टे ॥४
गङ्गाधरः-कम्पिलके चेकमाह-तिल्वकस्येत्यादि। तिल्वकमूलखककषायण दशवारान सुभावितां तिल्वकमूलखचं पुनः कम्पिल्लककषायेण दशवारान सुभाविता मात्रां पिबेदित्येक कम्पिल्लकेन ॥५॥
गङ्गाधरः-अथ त्रीन् लेहानाह-चतुरङ्गलेत्यादि। एको लेहश्चतुरङ्गुलचक्रपाणि:- सुरामित्यादिना सुरायोगावाह। मेषशृङ्गीत्यादिना विशिष्टसौवीरकेण योग एक: । कम्पिलकस्येत्यादिना कपिलकयोगमाह । कम्पिल्लको गुण्डारोचनिका । मातामिति तिल्वकचूर्णमालाम् ॥३-५॥
चक्रपाणि:-चतुरङ्ग लत्यादिना प्रथमो लेहः। चतुरङ्ग लकरूपेनेसि कषायेण, अथवा तस्य
For Private and Personal Use Only