________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८०
चरक-संहिता। [चतुरङ्गालकल्प
भवति चात्र। यस्य यत् पानमम्लं वा हृद्य वाद्वथवा कटु । लवणं वा भवेत् तेन युक्तं दद्याद विरेचनम् ॥ ११ ॥
तत्र श्लोको। द्राक्षारसे सुरासीध्वोर्दनि चामलकाद्रसे। सौवीरकेऽथ त्रिवृता-विल्वानाच कषायकैः ॥ लेहारिष्टे घृते द्वे च योगा द्वादश कीर्तिताः । वतुरङ्गालकल्पेऽस्मिन् सुकुमाराः सुखोदयाः॥ १२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने
चतुरङ्गलकल्पो नामाष्टमोऽध्यायः॥८॥ गङ्गाधरः-अत्र प्रमाणमाह-यस्येत्यादि । यो य एष उक्तो योगश्चतुरडलमजनः, यस्य जनस्य यत् पानं यदम्लं वा हृद्य स्यात, स्वादु वा कट वा हवं स्यात्, लवणं वा हृद्य भवेत्, तेन युक्तं तं तं योगं तस्मै दद्यात्। इति ॥११॥
गङ्गाधरः-उपसंहारमाह-द्राक्षेत्यादि। एको योगो द्राक्षारसे। सुरासीधुदधिमस्तामलकरससौवीरेषु पश्च । इति षट्। त्रिताकषाये विल्व. कषाये लेहे चारिष्टे चकैक इति चखारः । घृते द्वाविति द्वादश ॥ १२ ॥
गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च। कल्पस्थाने सप्तमेऽस्मिन्नष्टमऽध्याय एव च । चतुरङ्गुलकल्पे तु वद्यगङ्गाधरण तु । कृते जल्पकल्पतरौ कल्पस्थाने तु सप्तमे। स्कन्धे जल्पाभिधा राज-वृक्षकल्पस्य चाष्टमी। शाखेयं पूर्णतायाप्ता
स्फुटायों सुखवोधनी॥८॥ मासस्थमिति सार्द्धमासस्थम् । यस्य यदित्यादिनाऽनुक्मपरापरसाधनं विधत्ते। हृद्य न हि विरेचना योगस्य प्रियता स्यात्। पानमन्त्रन्चेति हृद्यमित्यादिभिः प्रत्येक सम्बध्यते ॥ ॥११॥ चक्रपाणिः-द्राक्षत्यादिसंग्रहो व्यक्तः ॥ १२ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेदढीपिकायां । चरकतात्पय्यटीकायां कल्पस्थानव्याख्यायां चतुरङ्गुल कल्पो
नामाष्टमोऽध्यायः ॥८॥
For Private and Personal Use Only