________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म भध्यायः] कल्पस्थानम् ।
३५७६ कषायेणाथवा तस्य त्रिवृच्चूर्णगुड़ान्वितम् । साधयित्वा शनैलेंहं लेहयेन्मात्रया नरम् ॥८॥ चतुरङ्गुलसिद्धाद वा क्षीराद् यदुदियाद घृतम् । मज्जकल्केन धात्रीणां रसे तत् साधितं पिबेत् ॥ तदेव दशमूलस्य कुलस्थानां यवस्य च। कषायैः साधितं सर्पिः कल्कः श्यामादिभिः पिबेत् ॥४॥ दन्तीकाथेऽञ्जलिं मजज्ञः शम्पाकस्य गुड़स्य च ।
दत्त्वा मासार्द्धमासस्थमासुतं तत प्रयोजयेत् ॥१०॥ गङ्गाधरा-अथ लेहे त्वेकमाह-कषायेणेत्यादि । अथवा तस्य विल्वमूलस्य कषायेण त्रिवृच्चूर्णगुडाभ्यां समानाभ्यामन्वितं चतुरङ्गलमज्जकल्क शनैलेंड पत्तवा लेहयेत्, इत्येकः ॥८॥ - गङ्गाधरः-घृते द्वावाह-चतुरङ्गलेत्यादि। चतुरङ्गुलमजज्ञस्वष्टगुणदुग्धं चतुगुणजले पक्त्वा मथिला यद् घृतमुदियात्, तद् घृतं चतुरङ्गुलमजकल्कपादिकं चतुगुणे धात्रीणां रसे साधितं पिबेदित्येकं घृतम्। तदेवेत्यादिना चापरम् । तदेव चतुरङ्गुलमज्जपकक्षीरोत्थं सर्पिर्दशमूलस्य कषायेण कुलत्थानां कषायेण यवस्य च कषायेण मिलितचतुगुणेन श्यामादिभित्रितादिभिः अपामार्गतण्डुलीयोक्तंत्रितां त्रिफलां दन्तीमित्यादिभिः कल्कः पादिकैः साधितं पिबेदिति द्वितीयः। इति घृते द्वौ ॥९॥
गङ्गाधरः-अथारिष्टे त्वेकमाह-दन्तीत्यादि। दन्तीमूलकाथे चतुगुणे चतुरालस्य मनोऽञ्जलिं कुड़वं गुस्याप्यञ्जलिं दत्त्वा मासमर्द्धमासं (१) वा स्थापयेत् । तदासुतं प्रयोजयेदित्येक इति द्वादश ॥१०॥
चक्रपाणिः- कषायेणेत्यादिको लेहो नवमः । चतुरङ्गुलेत्यादिना प्रथमं घृतम्। मज्ज्ञ इति चतुरङ्गुलमज्जः। तदेवेत्यादिना च द्वितीयं घृतम्। श्यामादिभिरिति मदनकल्पपठितैर्नवभिः 'इयामासिवृदन्ती' इत्यादिना ॥ ८ ॥९॥
चक्रपाणिः-दन्तीत्यादिना भरिष्टयोगमाह। गुडस्य चाञ्जलिमिति सम्बन्धः। मासा -
For Private and Personal Use Only