SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५७८ चरक संहिता | द्राक्षारसेन तं दद्याद दाहोदावर्त्तपीड़िते । चतुर्वर्षमुखे बाले यावद द्वादशवार्षिके ॥ ५ ॥ चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिम् । सुरामण्डेन संयुक्तमथवा कोल सीधुना । दधिमण्डेन वा सम्यक् रसेनामलकस्य वा । कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा ॥ ६ ॥ त्रिवृन्मज्ञोस्तथा कल्कं तत्कषायेण वा पिवत् । तथा विल्वकषायेण लवणक्षौद्रसंयुतम् ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ चतुरङ्गुलकल्पः गङ्गाधरः- द्राक्षेत्यादि । चतुर्वर्षावधिद्वादशवर्षपर्यन्तवयसि बाल दाहादि - पीड़िते च पुंसि द्राक्षारसेन युतं तं चतुरङ्गुलफलमज्जानं दद्यात् । इत्येकः ॥ ५ ॥ गङ्गाधर - चतुरङलेत्यादि । चतुरङ्गुलमशः प्रसृतं पलद्वयं कोष्ठापेक्षया अञ्जलिं वा कुड़वं सुरामण्डेन संयुक्तं पिबेत, अथवा कोलस्य सीधुना पिबेत् । अथवा दधिमस्तुना पिबेत, अथवामलकस्य रसेन पिबेत् । अथवा तं मज्जानं प्रसृतमञ्जलिं वा शीतकषायं कृत्वा सौवीरकेण पिबेदिति पञ्च । इति षट् ॥ ६ ॥ गङ्गाधरः -- त्रिदित्यादि । त्रिवृता चतुरङ्गुलमज्जा च । तयोः कल्क तयोः कषायेण पिवेत् इत्येकः । अथ विल्वकषायेणाह - तथेति । विल्वमूलकषायेण चतुरङ्गलमज्जाकल्कं लवणक्षौद्रसंयुतं पिबेत् । इत्येकः, इति द्वौ ॥ ७ ॥ For Private and Personal Use Only चक्रपाणि: - द्राक्षेध्यादि प्रथमो योगः । चतुर्वर्षमुखे बाले यावद् द्वादशवार्षिक इत्यनेनास्य प्रयोगस्य चतुर्वर्षादव यावदुद्ध द्वादशवर्षादवश्यं विरेश्वनतयोपयोगिकतां बालस्य निषेधयति ॥ ५ ॥ चक्रपाणिः-सुरामण्डनेति द्वितीयः । कोरसीधुनेति तृतीयः । सौवीरकेण वेत्यन्तेन योगप्रथमपरं व्यकम् ॥ ६॥ चक्रपाणिः - त्रिवृतो वा कषायेण मज्जकल्कं तथा पिबेदिति सप्तमः । तथेत्यादिनाष्टमः । कषाययोगद्वयं जतूकर्णेऽप्युक्तमेव । सिवृदु विश्वक पायाभ्यां रक्षौद्रलवणौ च द्वौ इति । लेख पाटान्तरं न प्रमाणम् ; संग्रहे च करिष्यति कषाये च विवृतो विल्वकस्य च इति ॥ ७ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy