________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातश्चतुरङ्गुलकल्यं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥ १॥ आरम्बधो राजवृक्षः शम्पाकश्चतुरङ्गलः। प्रग्रहः कृतमालश्च कर्णिका रोगघातकः ॥ २॥ ज्वरहृद्रोगवातामृगुदाव दिरोगिषु । राजवृक्षोऽधिकः पथ्यो मृदुमधुरशीतलः ॥ बाले वृद्ध क्षतक्षीणे सुकुमारे च मानवे। देयो मृद्वनपायित्वाद विशेषाच्चतुरङ्गलः ॥३॥ फलकाले परिणतं फलं तस्य हरेद बुधः। तेषां गुणवतां भारं सिकतासु निधापयेत् ॥ सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक् । ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत् ॥ ४॥ गङ्गाधरः-अथोद्दिष्टानुक्रमाच्चतुरङ्गुलकल्पमाह-अथेत्यादि। षड् विरेचनशताश्रितीये यदुक्तम्-चतुरङ्गलो द्वादशधा योगमेतीति, तद् द्वादशयोगयुक्तं चतुरॉलकल्पं व्याख्यास्यामः । शेषं पूर्ववत् । आरग्बध इत्यादयः पय्यायाः॥२२॥
गङ्गाधरः-गुणकाण्याह-ज्वरेत्यादि । फलेत्यादि। तस्य चतुरालस्य। तेषां गुणवतामव्यापनानां भारं प्रभूतं सिकतामध्यस्थं सप्तरात्रात् परं समुद्धृत्यातपे शोषयेत् । ततो मज्जानं वीजमध्यं शस्यं समुद्धत्य शुचौ भाण्डे निधापयेत् स्थापयेत् ॥३॥४॥
चक्रपाणिः-श्यामानिवृत्कल्पानन्तरं मृविरेचनत्वसामान्यात् चतुरङ्गलकल्पोऽभिधीयते। व्यवहारा पर्यायानाह-भारग्बध इत्यादि। अधिकं पथ्य इति ज्वरादिष विशेषेण विरेचनप्रयोगो हितः। फलकाल इति उचितफलकाले । तेषामिति फलानाम् । जातमिति भूरिद्रव्योपलक्षणम् । मजानमिति फलमज्जानम् ॥ १-४॥
For Private and Personal Use Only