________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५७६
चरक-संहिता। (इयामानिवृत्कल्पः क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयापि च । पानकादिषु पञ्चैव षडतो पञ्च मोदकाः ॥ चत्वारश्च घृत क्षीरे द्वौ चणे तर्पणादिषु । द्वौ मदा कालिके द्वौ च दशान्ये षाड़वादिषु ॥ श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम् । शतं दशोत्तरं सिद्धं योगानां परमर्षिणा ॥ ३९ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्यस्थाने
श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः ॥७॥ रेकोऽष्टौ चेति नव योगाः। सन्धवादिभिर्दश द्वौ चेति द्वादश। मूत्रेऽष्टादश । यष्टीमधुना द्वौ, पूर्व एको जीवकादिषु शेष एक इति द्वौ। जीवकादिषु चतुर्दश । क्षीरादौ सप्त। लेहेऽष्टौ। शर्करामोदकादिभिः संप्रयोज्याः पिप्पलीत्यादयः श्वबारः। पानकादिषु प्रयोज्या भृङ्गैलाभ्यामित्यादयः पञ्च। पड़तो त्रिपलमित्यादयः पञ्च च चनारश्चेति नव मोदकादयोः योगाः। तर्पणादिषु चतुर्यु चत्वारः। घृते द्वौ, क्षीरे द्वौ, मदेव द्वौ, काञ्जिके द्वौ, पाड़वादिषु दश । इति दशोत्तरं शतमिति ॥३९॥ - गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकपतिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमे तु त्रिवृत्कल्पे तु सप्तमे। अध्यायेऽत्र वैद्यगङ्गाधरेण —तु कृते पुनः। जल्पकल्पतरौ कल्प-स्थाने स्कन्धे तु सप्तमे। सप्तमत्रिता. कल्पाध्यायजल्पाहया त्रियम्। समाप्ता सप्तमी शाखा
स्फुटव्याख्यागुणान्विता ॥७॥ चक्रपाणिः-एकोऽम्लादिभिरित्यादिसंग्रहो व्यक्तार्थः। यष्टया द्वाविति द्वयोः, यट्याई विधिनेति जीवकादावेको मधुकेत्यादिना चापरः॥३९॥ इति महामहोपाध्यायचरक चतुराननश्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां श्यामासिवृत्कल्पो
नाम सप्तमोऽध्यायः ॥७॥
For Private and Personal Use Only