________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः कल्पस्थानम् ।
३५७५ तथा मदनकल्पोक्तान् षाड़वादीन् पृथग् दश । त्रिवृच्चूर्णेन संयोज्य विरेकार्थ प्रयोजयेत् ॥ ३६॥
भवन्ति चात्र। त्वक्केशराम्रातकदाडिमला-सितोपलामाक्षिकमातुलुङ्गः । मदास्तथाम्लैश्च ® मनोऽनुकूलैर्युक्तानि देयानि विरेचनानि ॥३॥ शीताम्बुना पीतवतश्च तस्य सिञ्चन्मुखं छर्दि विघातहेतोः। हृयांश्च मृत्पुष्पफलप्रबालानन्यांश्च दद्यादुपजिवणार्थम् ॥३८॥
तत्र श्लोकाः। एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः।
मूत्र'ऽष्टादश यष्टा द्वौ जीवकादौ चतुर्दश ॥ त्रिचर्णसंयुतान् तदवत् षड़हमम्भसा गोलयिखा भाण्डे यवपणे स्थापयेत्, तदामुतं तुपोदकं पिबेदिति द्वितीयः काञ्जिके ॥ ३५ ॥
गङ्गाधरः-अथान्यान् दश षाड़वादीनाह-तथेत्यादि। मदनकल्पोक्तान् दश षाड़वादीन त्रिवृच्चूर्णन संयोज्य प्रयोजयेत् । तद्यथा-यथावत् षाड़वराग लेहमोदकोत्कारिकात गपानकमांसरसयूषमद्यानि प्रसिद्धानि त्रिन्मूलचूर्णेन दोषाधनुरूपमात्रेण संयोज्य प्रयोनयेदिति षाड़वादिषु दशसु दश योगाः। इति त्रिवृताया दशोत्तरशतं योगानामिति ॥३६॥ ___ गङ्गाधरः-तत्र प्रमाणश्लोकानाह-भवन्तीत्यादि। लगादिभिर्मनोऽनुकूल युक्तानि सर्वाणि विरेचनानि देयानि । विरेचनं पीतवतस्तस्य मुखं शीताम्बुना च सिञ्चेत्। कस्मात् १ छईि विघातहेतोविरेचनौषधानां कटुकखादिगुणेन भाविच्छबि निवारणहेतोः। मृदादीनि सुगन्धिद्रव्याणि उपजिघ्रणाथैश्च प्रदद्यात् इति ॥ ३७॥३८॥
गङ्गाधरः-उपसंहारश्लोकानाह-तत्र श्लोका इत्यादि। अम्लादिभिउत्स्विन्नयवपिष्टकम् । पल्ल इति धान्यादिराशौ । तच्चूर्णसंयुतानिति त्रिवृच्चूर्ण संयुतान् । तदवदिति षडह पल्ले स्थितान् ॥ ३५ ॥
चक्रपाणिः-तथेत्यादिना षाड़वादियोगान् दशाह । दश षाड़वादयो बदरपाडवलेहमोदकोत्कारिकातर्पणशाकमांसरसयूषमद्यानोति ग्रन्थेन मदनकल्पोक्ताः ॥३६॥
चक्रपाणिः-सम्प्रति दशोत्सरं योगशतमभिधाय वान्तिनिरासार्थ कृत्यत्रयेण समं विरेचनप्रयोगानाह-स्वक्के शरेत्यादि ॥३७॥ ३८॥
• अन्यैश्च इति बहुषु ग्रन्थेषु पाठः ।
For Private and Personal Use Only