________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५७४
चरक-संहिता। श्यामाखिवृत्कल्पः । त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत् । पादशेषं कषायं तं पूतं गुड़तुलायुतम् ॥ स्निग्धे स्थाप्यं घटे क्षौद्र-पिप्पलीफलचित्रकैः।। प्रलिप्ते विधिना मासं जातं तत् मात्रया पिबेत् । ग्रहणीपाण्डुरोगन गुल्मश्वयथुनाशनम् ॥ सुरां वा त्रिवृतापाद-कल्का तत्क्वाथसंयुताम् ॥ ३४॥ यवः श्यामात्रिवृत्काथ-खिन्नैः कुल्माषमम्भसा। आसुतं षड़हं पणे ® जातं सौवीरकं पिबेत् ॥
भृष्टान् वा सतुषान् शुद्धान् यवांस्तच्चूर्णसंयुतान् । ___ आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ॥ ३५ ॥ इत्येकः क्षीरे। ताभ्यां द्वाभ्यां त्रिन्मूलाभ्यां कल्कभूताभ्यामष्टांशिकाभ्यां चतुर्गुणजलेन साधितं वा पयः पिबेत् । तेन सुखं विरिच्यते। इति द्वितीयः क्षीरे योगः ॥३३॥
· गङ्गाधरः-अथ मदर द्वावाह-त्रिदित्यादि। त्रिवृतायाः सनखानष्टौ मुष्टीनम्भसो द्रोणे पचेत् । पादशेष कषायं कृत्वा पूखा गुड़तुलां तत्र दत्त्वा गोलयिखा पुनः पूतं क्षौद्रादिभिः पलिप्ने स्निग्धे घृतादिघट स्थाप्यं रक्षाविधिना मासं यावत् । ततो जातं तत् मात्रया पिवेत् पाण्डादिनाशनमिति त्वेको मदन । अपरमाह-सुरां वेत्यादि। तत्काथसंयुतां सुरां त्रिताया अष्टमुष्टीनम्भसो द्रोणे पक्त्वा पादशेषकाथसंयुक्तां तुलामितां सुरां त्रिताकल्कपादां स्निग भाण्डे मासं स्थापयिखा ततः परं पिबेद वा। इति द्वितीयो मदेव ॥ ३४॥ .. गङ्गाधरः-अथ काञ्जिके द्वावाह-यवैरित्यादि। श्यामारुणमूलयोस्त्रित्तोः कषायेण स्विन्नय वैरम्भसा यथाण कृतं कुल्माषं काञ्जिकं पण यवपणेमध्ये षड़ह भाण्डे कुला स्थापयेत् जातमासुतं तत् सौवीरं पिबेदित्येकः काजिके। अपरश्चाह-भृष्टानित्यादि। सतुषान् यवान् शुद्धान् वा यवान् भृष्टान् समान
चक्रपाणि:-जले द्रोण इत्यादिना प्रथमा सुरा, सुरां वेत्यादिना द्वितीया, एवं द्वौ सुरायोगी भवतः। खिवृत्पादयुक्तः कल्कः यस्यां सा तथा ॥३४॥ .
चक्रपाणि:-यवरित्यादिना सौवीरकतुषोदके प्राह। एतौ द्वौ काक्षिकयोगौ। कुल्माषः • पल्ल इति चक्रतः पाठः।
For Private and Personal Use Only