________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७म अध्यायः ]
कल्पस्थानम् ।
त्रिवृतां त्रिफलादन्ती - सातलाव्योषसैन्धवैः । कृत्वा चूर्णन्तु सप्ताहं भाव्यमामलकीर से । तद् योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु ॥ ३१ ॥ तुल्याम्लं त्रिवृताकल्क सिद्ध गुल्महरं घृतम् ॥ श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह । जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ॥ ३२ ॥ श्यामात्रिवृत्कषायेण सिद्ध चीरं पिबेत् तथा । साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ॥ ३३ ॥ शर्करा । तच्चर्ण मदन पिवेदथवान्येनाम्लेन द्रव्येण पिवेदिति चतुथः । इति पश्च चूर्णा मोदकाश्च चत्वारः । इति नव योगाः षट्सु ऋतुषु ॥ ३० ॥
गङ्गाधरः- अथ तर्पणादिषु चूर्णमाह - त्रिवृतामित्यादि । त्रिवृतां त्रिफलादिभिः सह चूर्ण कृत्वा सप्ताहमामलकीरसे भाव्यम् । तच्च चूर्ण तर्पणे यूपे पिशिते रागयोगेषु च योज्यम् । इति तर्पणादिषु चतुर्षु' चूर्णमेकम्, चतुर्द्धा योगः ॥३१॥
गङ्गाधरः - घृते द्वौ योगावाह - तुल्याम्लमित्यादि । घृतं पादिकत्रिता कल्कसिद्धं तुल्याम्लद्रवं काञ्जिकादिकं त्रिगुणजलं पक्त्वा पिवेत् गुल्महरमित्येकः । श्यामेत्यादि । त्रिवृताया द्विविधमूलं समानामलकैः सहाष्टगुणे जले पचेत् । तेन पादावशेषेण चतुर्गुणेन कषायेण सर्पिः पतत्रापिवेदिति द्वितीयः । इति घृते द्वौ योगो ॥ ३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३५७३
गङ्गाधरः - क्षीरे द्वावाह - श्यामेत्यादि । श्याममूलारुणमूलयां त्रिवृतोरष्टगुणे जले पाकात् पादशेषेण कपायेण चतुगुणेन सिद्ध क्षीरं तथा पिवेत् ।
*
मिषिद्ध तथापि विधेयविहितं विरेचनमेव ज्ञेयम् । सर्व्वतु योगौ वसन्ते वसन्तादौ च ज्ञेयौ । शिवृच्छयामेत्यादिकोऽपि सर्व्वर्त्तको योगः । ब्रूषणेत्यादिचूर्णयोगो द्वितीयः ॥ २५–३० ॥
चक्रपाणि: - त्रिवृतां त्रिफलामित्यादिकस्तर्पणयोगः । एवं सर्व्वत कयोगेन समं द्वौ तर्पणयोगी
भवतः ॥ ३१ ॥
चक्रपाणिः - तुल्या म्लमित्येकं घृतम्, श्यामेत्यादि द्वितीयम्, श्यामासिवृत् कषायेणेत्यादि तृतीयम् । साधितं वेत्यादिक्षीरयोगमेकमाह । घृतेन क्षीरेण च घृतेन क्षीरेण वैकेन मिलित्वा चत्वारि घृतक्षीराणि भवन्ति ॥ ३२ ॥ ३३ ॥
नियूँ न तो क्या सिद्ध' सर्पिः पिबेत् तथा । इति पाठान्तरम् ।
४४८
For Private and Personal Use Only