________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६४
चरक संहिता । चोरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम् ।
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः ॥ शर्करा यास्तुगातीर्य्याः सर्पिषोऽभिनवस्य च । तत् पाययेत सचैौद्र षष्टिकान्नञ्च भोजयेत् ॥ जरापरीतोऽप्यबलो योगेनानेन बिन्दति । नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ वाजीकरणपाद २
अपत्यकरः स्वरसः ।
1
खर्जूरीमस्तकं माषान् पयस्यां सशतावरीम् । खराणि मधूकानि मृद्वीकामजड़ाफलम् ॥ पलोन्मितानि मतिमान् साधयेत् सलिलाढके तेन पादावशेषेण नीरप्रस्थं विपाचयेत् ॥ नीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम् । सशर्करेण संयोग एष वृष्यः परं स्मृतः ॥ ५ ॥ इति वृष्यक्षीरम् । मृीकान्तानां षण्णां प्रस्थो मिलित्वा द्विशरावं, क्षीरप्रस्थ' गोदुग्धस्य चतुःशरावं, जलप्रस्थं जलस्य चतुःशरावं, सर्व्वमैकध्यं साधयेत् मृद्वग्निना पचेत् । प्रस्थावशेषं चतुःशरावशेषे सति अवतारयेत् । ततः शुद्धेन वाससा वस्त्रेण पूतं तं कार्यं शर्करायाः त्रिभिः प्रसृतैः षडुभिः पलैस्तुगाक्षीर्याः षडूभिः पलैरभिनवस्य वृष्यतरत्वात् नूतनस्य सर्पिषः षभिः पलैर्योजयेत् मेलयेत् । अनुरूपेण मधुना नवेन सह युक्तं कृत्वा यथाग्निबलं मंशुद्धतनुं भिषक् पाययेत । अथ षष्टिकान वृष्यावचारणया भोजयेत् ॥ ४॥
अपत्यकरस्वरसः ।
गङ्गाधरः - खर्जूरीत्यादि । खर्जरीमस्तकं खर्जरवृक्षस्य मस्तकं पयस्यां क्षीरकाकोली खज्जराणि खर्जूरफलानि मधुकानि मधूकफलानि वृष्यत्वात् अजड़ाफलं आत्मगुप्ताफलम् । एषां प्रत्येकं पलोन्मितानि सलिलाढ़ के षोड़श - शरावजले मृद्वग्निना साधयेत् । पादावशेषेण चतुःशरावावशेषेण तेन काथेन समान गुणानि तदण्डान्यपीह गृह्यन्ते । वर्त्तिका वत्तकारा भक्ष्याः; अयं तुल्यद्रव्यतया विविधreviseds एव यीगः । अजड़ा शूकशिम्बी ॥ ३५ ॥