________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
चिकित्सितस्थानम् ।
२३६३ चटकानां सहसानां दक्षाणां शिखिनां तथा। शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत् ॥ गव्य सर्पिराहस्य कुलिङ्गस्य वसामपि । षष्टिकानाञ्च चूर्णानि चूर्णं गोधूमिकं तथा ॥ एभ्यः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा। पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः॥ एषां प्रयोगाद भक्ष्याणां स्तब्धेनापूर्णरेतसा। शेफसा वाजिवद् याति यावदिच्छस्त्रियो नरः॥३॥
इति वृष्यपूपलिकयोगः । आत्मगुप्ताफलं माषान् खघुराणि शतावरीम् । शृङ्गाटकानि मृद्वीकां साधयेत् प्रस्थसम्मितम् ॥
दीर्घजीविन विपुलं बहुसङ्घ पश्यति । एतेन वृद्धस्य तादृशपुत्रजननशक्तिवत् दीर्घायुष्ट ख्यापितम्। अन्यथा कथं जनयेदिति नोक्त्वा पश्यतीत्युक्तम् ॥२॥
इत्येकयोगोऽपत्यकरः षष्टिकादिगुड़िका।। - गङ्गाधरः-चटकानामित्यादि। चटकह सकुक्कुटमयूरशिशुमारकुम्भीराणां शुप्राणि रेतांसि गव्यं नवं सर्पिष्यत्वात् । वराहकुलिङ्गयोर्वसा स्नेहविशेषः । षष्टिकतण्डुलचूर्णगोधूमचर्णानि युक्त्या नीखा उत्कारिका पत्त्वा पूपलिकाः शष्कुल्यो वा वर्तिकाः वटका वा पूपा वा धाना वा अन्ये वा विविधा भक्ष्याः कार्याः। एषां भक्ष्याणां प्रयोगात् आपूर्णरेतसा स्तब्धेन दृढ़ाशिथिलेन शेफसा ॥३॥
इति वृष्यपूपलिकयोगः।। ____ गङ्गाधरः-आत्मगुप्ते त्यादि। प्रस्थसम्मितमिति आत्मगुप्ताफलादीनां
संयोगो न विरोधमावहति ; तथा हि सुश्रुतेऽपि त्रिफलायस्कृतौ मधुनोऽग्निसम्बन्धो भवत्येव ; आत्मजमिति हर्षभूतात्मजं शुक्रमिति यावत् ॥ १।२॥
चक्रपाणिः-दक्षः कुक्कटः । शुक्राणीसि यद्यप्युक्तम् , तथापि चटकादिशुक्रस्य ग्रहणस्याशक्यत्वात्
For Private and Personal Use Only