________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाजीकरणपाद २
२३६२
चरक-संहिता। काषभककाकोली-श्वदंष्ट्रामधुकस्य च । शताव- विदार्याश्च द्राक्षाख रयोरपि ॥ संयुक्तं मात्रया वैद्यः साधयेत् तत्र चावपेत् । तुगाचीाः समानानां शालीनां षष्टिकस्य च ॥ गोधूमानाञ्च चूर्णानि यः स सान्द्रीभवेद रसः। सान्द्रीभूतश्च तं कुर्यात् प्रभूतमधुशर्करम् ७ ॥ गुड़िका बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत् । ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः ।
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम् ॥२॥ ऋद्धेश्च रसेन तद्रसतुल्येन, ऋषभकस्य रसेन तद्रसतुल्येन, काकोल्याश्च रसेन तद्रसतुल्येन, श्वदंष्टायाश्च रसेन तद्रसतुल्येन, मधुकस्य यष्टीमधुकस्य काथेन तद्रसतुल्येन, शतावर्याश्च रसेन तद्रससमेन, विदार्याः भूमिकुष्माण्डस्य रसेन तद्रससमेन, द्राक्षायाः काथेन तद्रसतुल्येन, खज्जूरस्य च काथेन तद्रसतुल्येन सह संयुक्तं कृखा वैद्यः साधयेत् मृद्वग्निना पचेत् । पादशेषे तत्र तुगाक्षी- वंशलोचनायाः समानानां .शालीनां चर्णानि तुगाक्षी- समानस्य षष्टिकस्य च तण्डुलस्य चूर्णानि तुगाक्षीाः समानानां गोधूमानाञ्च चूर्णानि आवपेत् प्रक्षिपेत्। यैर्यावन्मितैस्तुगाक्षीर्यादीनां चणैः स रसः सान्द्रीभवेत् तावन्मानेन तुगाक्षीर्यादिचूर्णानि समानमानोन्मितानि तत्र रसे प्रक्षिपेदिति भावः। ततः सान्द्रीभूतं तं रसं प्रभूतमधुशर्करें भूरिमधुना तुल्येन शर्करया मधुरं कुर्यात् । ततो बदरैस्तुल्या गुड़िकाः कुर्यात् । ततस्ताश्च गुड़िका नवे सर्पिषि भर्जयेत्। ता गुडिकास्तिस्रो वा चतस्रः पश्चादिका वा यथाग्नि प्रयुञ्जानः क्षीरमांसरसाभ्याम् अशनशीलः स्यात् नान्यः। दृद्धोऽपिएतत् प्रयुञ्जानः क्षीरमांसरसाशनःसन् आत्मजमपत्यमक्षयं इत्यादि। शुद्धषष्टिकमिति गौरषष्टिकम् । मात्रा बलादिरसानां तुल्यमानता ; किंवा 'माता'शब्दल अल्पवचनत्वाद् बलादिरसमल्पमात्रम्। प्रक्षेपचूर्णप्रमाणमाह-यैः स सान्द्रीभवेद् रस इति । यावता तेन चूर्णेन रसस्य सान्द्रता भवति, तावन्मानं चूर्ण ग्राह्यम् ; प्रततत्वं मधुशर्करयोर्यावतात्यर्थमधुरत्वं स्यात् तावजज्ञ यम् । अत च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जनक्रियायामग्नि
• प्रमूतेत्या प्रततेति पाठान्तरम् ।
For Private and Personal Use Only