________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
चिकित्सितस्थानम् ।
२३६१ अथात आसिक्तवीरीयं वाजीकरणपादं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम् । उलूखले समापोथ्य पीड़येत् क्षीरमोदितम् ॥ क्षण्णं विमृदितं क्षीरे पीड़येत् सुसमाहितः। गृहीत्वा तं रसं पूत गव्येन पयसा सह ॥ वोजानामात्मगुप्ताया धान्यमाषरसेन च। बलायाः सूप्यपोश्च जीवन्त्या जीवकस्य च॥
अथ संयोगशरमूलीयवाजीकरणपादव्याख्यानन्तरमतो वाजीकरणप्रकरणाद्धेतोरासिक्तक्षीरीयं वाजीकरणपादमाह । पादादौ आसिक्तक्षीरमिति पदायेंमधिकृत्य कृतं वाजीकरणपादं व्याख्यास्यामः॥१॥
गङ्गाधरः-आसिक्तेत्यादि। आसिक्तक्षीरमिति - क्षेत्रेऽच्छिन्न पष्टिकं पष्टिकधान्यमापूर्णमीपत् पूर्णक्षीराभशस्यमशुष्कमाद्रमेव क्षेत्रात् छित्त्वानीय शुद्धं धूलिरहितं गव्यक्षीरे आसिक्तं गोदुग्धे क्षिप्तं यदा क्षीरमोदितं तत्क्षीरेण खिन्नवत् पुष्ट भवति तदा उदूखले समापोथ्य कुट्टयित्वा पीड़येत्। पीडयिखा रसं गृहीला ततः परं पुनः क्षण्णं तत् षष्टिकं क्षीरे गोक्षीरे विमृदितं मयिखा सुसमाहितः पुनः पीड़येत् वत्रेण रसं गालयेत् । पूतं तं रसं गृहीखा तद्रसे तुल्येन गव्येन पयसा सह मात्रया तद्रसतुल्येन आत्मगुप्ताया वीजानां रसेन काथेन सह, धान्यस्य धान्यकस्य रसेन तद्रसतुल्येन सह, माषस्य च काथेन तद्रसतुल्येन, बलायाश्च काथेन तद्रसतुल्येन, सूप्यपण्यों मुदगमाषपण्यों रसेन तद्रसतुल्येन, जीवन्तया रसेन तद्रसतुल्येन, जीवकस्य रसेन तद्रसतुल्येन,
चक्रपाणिः-आसिक्तक्षीरवृश्याभिधानप्रसङ्गात् पादायस्य विशिष्टसम्बन्धावयवतयोच्यते भासिक्तभोरी, तत स्वार्थिकः 'क'प्रत्ययः ; किंवा, ढक्प्रत्ययेन “वैशेषिक" शब्दवत् आसिक्तक्षोरिक इति साधनीयम्। आसितक्षीरमिति भीरमकवृद्धम् । यदुक्तं जतूकणे-'ओरसेकवृद्धषष्टिकं पकम्'
For Private and Personal Use Only