________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म भण्याया)
कल्पस्थानम् ।
३५६६ लिह्यात् सपिमधुभ्यां वा मोदकान् वा गुड़ेन तु। भक्षयेत् निष्परीहारमेतच्छृष्ठं विरेचनम् ॥ गुल्मनोहोदरं कासं हलोमकमरोचकम् । कफवातकृतांश्चान्यान् व्याधोनेतद् व्यपोहति ॥ २०॥ विडङ्ग पिप्पलोमूलं त्रिफलाधान्यचित्रकान् । मरिचन्द्रयवाजाजी-पिप्पलोहस्तिपिप्पलीः ॥ लवणान्यजमोदाञ्च चूर्णितान् काषिकान् पृथक् । तिलतैलत्रिवृच्चूर्ण-भागो चाष्टपलोन्मितो॥ धात्रीफलरसप्रस्थान् त्रीन् गुहार्द्धतुलां तथा। पक्त्वा मृद्रग्निना खादेद बदरोडम्बरोपमान् । गुड़ान् कृत्वा न चात्र स्याद् विहाराहारयन्त्रणा ॥ मन्दामित्वं ज्वरं मूर्छा मूत्रकृच्छ्रमरोचकम् । अखप्नं गात्रशूलञ्च कासं श्वास भ्रमं क्षयम् ॥ कुष्ठार्शःकामलामेह-गुल्मोदरभगन्दरम् । ग्रहणीपाण्डुरोगांश्च हन्युः पंसवनाश्च ते । कल्याणका इति ख्याताः सवृतुषु यौगिकाः ॥२१॥
कल्याणकगुड़कः। मधुसर्पिा लिह्यात्, तेषां द्विगुणेन गुड़ेन मोदकान् कृता वा मधुसपियों लिह्यात् । इत्येकः ॥२०॥ .
गङ्गाधरः-विक्रेत्यादि। अजमोदा यमानी तस्या मूलं विमादीन् यमान्यन्तान् प्रत्येकं काषिकान् तिलतैलमष्टपलं त्रिच्चूर्णमष्टपलं धात्रीफलानां रसस्य प्रस्थत्रयं द्वादशशरावं पुराणगुडस्यादतुलां तेन धात्रीरसेन गोलयिता
चक्रपाणिः-शर्करेत्यादिमोदकः प्रथमः। तत्र च 'मोदके द्विगुणो गुड़ः' इति वचनात् गुरुशर्करां चूर्णाद द्विगुणामिच्छन्ति । विवृच्छाणा इत्यादिकेनेह मोदकवचनाच यद्यपि पठ्यते योगः, तथाप्यस्य लेहेनव ग्रहणादयमष्टमो लेहो भवति ॥ १९ ॥२०॥
चक्रपाणिः-विडङ्गमित्यादिना द्वितीयो मोदक; ॥ २१ ॥
For Private and Personal Use Only