________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६८
चरक-संहिता। श्यामानिवृत्करूया भृङ्गलाभ्यां समं नीतं त्रिवृतायाः सशर्करम् । चूर्ण फलरसनौद्र-सक्तभिस्तपणं पिबेत् ॥ वातपित्तकफोत्थेषु रोगेष्वलगाग्निकेषु च। नरेषु सुकुमारेष निरपायं विरेचनम् ॥ १७ । १८॥ शर्करा त्रिफला श्यामा त्रिवृन्मागांधका मधु । मोदकः सन्निपातोद्ध-रक्तपित्तज्वरापहः ॥ १६ ॥ त्रिवृदभागास्त्रयः प्रोक्तास्तिस्त्रश्च त्रिफलात्वचः।
विडङ्गनारपिप्पल्यः समास्तिस्त्रश्च चूर्णिताः ॥ तद यथा-भृङ्गलाभ्यामित्यादि । भृङ्गगुड़ला । एला स्थूला। ताभ्यां द्वाभ्यां समं त्रितायाश्चूर्ण सशकरं त्रयाणां समा शकेरा। फलानामम्लानां तिन्तिहीकोलाम्रबदरादीनामन्यतमं रसं यथायोग्यं क्षौद्रश्च यथायोग्यं यवादिसक्तुकञ्च यथायोग्यमालाड्य तर्पणं पानकं पिबत्। लोके प्रसिद्ध विधिना रसान यूषांश्च विधाय पिबेत् । तद् यथा-यथा एक मांसं पाकाहेजले पक्त्वाद्धशेषे पूत तास्मन् पूर्वोक्तभृङ्गादीनि दत्त्वा रसं स्वच्छमध्यघनान्यतर्म साधयिता शीतीकृत्य क्षोद्रं दत्त्वा पिबेत्। एवं मुद्गादिविदलं च देशगुणे तोये पक्त्वा द्रवीभूते विदलेऽर्द्धशेष भृङ्गादीनि पूर्वोक्तानि तथा परिमितानि यथाई दत्त्वा पक्त्वा यूषः कार्याः, शीते भूत क्षौद्रं दत्त्वा पिबेत तेन भुञ्जीत का। एवं मोदकान् भृङ्गादिक्षौद्रान्तद्रव्यः कुय्यात् । तथा रागान् षाड़वांश्च कुर्यात्. इति ॥१७॥१८॥
गङ्गाधरः-शर्करेत्यादि। त्रिफला श्यामाऽरुणा च त्रिवृता मागधिका पिप्पली। तेषां चूर्ण समम्, सब्वेतो द्विगुणा शर्करा। मधुना मोदकः कार्य, इत्येकः ॥१९॥
गङ्गाधरः त्रिदित्यादि। त्रिच्चूर्णस्य त्रयो भागात्रिफलानां फल बस्तिस्रविभागान्विताः विडमादिकास्तिस्रश्च त्रिभागान्विताश्चूर्णिताः भूलाभ्यामित्यादिना तर्पणयोगं प्रथममेवाह । द्वितीयस्तु सर्पणयोगो भविष्यति इति। भृ# गुस्वक् । तैश्च शर्करेति भृङ्ग लानीलीनिवृभिः। फलरसो दाडिमरसः ॥ ११-१८॥
• मालाभ्यां समं नीलं तैस्तिवृत् तैश्च शर्करा । इति चक्रभृतः पाठः।
For Private and Personal Use Only