________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अभ्यायः कल्पस्थानम् ।
३५६७ पिप्पलों नागरं क्षारं श्यामात्रिवृतया सह । लेहयेत् मधुना साद्धं श्लैष्मिकाणां विरेचनम् ॥१६॥ मातुलुङ्गाभयाधात्री-श्रीपर्णीकोलदाडिमात्। खरसान् भर्जितां तैले साधयेत् तत्र चावपेत् ॥ सहकारात् कपित्थाच्च मध्यमम्लञ्च यत् फलम् । पूर्ववद बहलीभूते त्रिवृच्चूर्ण समावपेत् ॥ त्वपत्रकेशरलानां चूर्णश्च मधुमात्रया। लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ॥ पानकानि रसान् यूषान् मोदकान् रागषाड़वान् ।
अनेन विधिना कुय्योद विरेकार्थ कफाधिके । पूर्वोक्तलहविधिना शकरामोदकादीन पत्ते कुर्यादिति । शकरां त्रिच्चूर्णसमां पक्त्वा मोदकादीन् कुर्यादित्येकः ॥१५॥ . गङ्गाधरः-पिप्पलीमित्यादि। पिप्पल्यादिभिस्त्रिभिः समया त्रिवृतया सह . मिश्रीकृत्य सर्वसमशकरया मोदकादीन् कृखा कफे मधुना लेहयेदित्येकः ॥१६॥ - गङ्गाधरः-मातुलनेत्यादि। मातुलुङ्गादीनां स्वरसान् शकरया समान् साधयेत् पचेत् । तत्र च लेहीभूते तैले भज्जितां त्रितां आवपेत् प्रक्षिपेत् । अधिकाराद इत्पेकः श्लैष्मिकाणामेव । सहकारात् फलमध्यं कपित्थात् फलमध्यं यत् फलमम्लं वदरतिन्तिडिकादिकं तस्य तस्य मध्यं तदेकसमां शर्कराच पत्वा घनीभूते तलभज्जितं त्रिच्चूर्ण खगादोनां चूर्णश्च मिलितं त्रिवृच्चूर्णसमं तत्र समावपेत्। मोदकादीन् कृला मधुमात्रया लेहः। इत्येक इति चखारः। पानकानीत्यादि । अनेन वक्ष्यमाणेन विधिना पानकादीन् कुर्य्यात् । योगाश्चतुरो अतिदेशानुगुण्यात् लेहानां मध्य एवाह । अस वादयोऽपि शर्कराकृता एव ज्ञेयाः। अनेन विधिनेति इक्ष्वादिरससंस्कारेण निवृच्च र्णयोगेन च । पिप्पलों नागरमित्यादिना षष्ठो लेहः । मध्यमित्यम्लपित्थस्य मध्य भागम् । अम्लन्च : यत् मातुलुङ्गादि। पूर्ववदितिः कौडविकाम् (कौडविकांशान ) मातुलुङ्गादिरसानां दर्शयति । पानकानीत्यादिनातिदेशानुगुण्यात पासकादिपायोगानाह। रागप्रधानः पादयो रागपाडवः। अनेन विभिनेति पूर्वले होकविधिना।
For Private and Personal Use Only